________________
बृहद्वृत्तिः ।
आयुष्मन् ! प्रभास ! त्वमेवं मन्यसे-कि दीपस्येवास्य विस्य नाशो ध्वंस एवं निर्वाणम् ?, यथाऽहुः सौगतविशेषाः विशेषा० केचित्, तद्यथा
"दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद् विदिशं न काञ्चित् स्नेहक्षयान् केवलमेति शान्तिम् ॥१॥ ॥८१६॥
जीवस्तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद् विदिशं न काञ्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥ २॥"
इति । किं वा यथा जैनाः प्राहुस्तथा निर्वाणं भवेत् । किं तत् ? इत्याह- सतो विद्यमानस्य जीवस्य विशिष्टा काचिदवस्था । A कथंभूता ? राग-द्वेष-मद-मोह-जन्म-जरा-रोगादिदुःखक्षयरूपा । उक्तं च
"केवलसंविद-दर्शनरूपाः सर्वार्तिदुःखपरिमुक्ताः । मोदन्ते मुक्तिगता जीवाः क्षीणान्तरारिगणाः ॥१॥" इति ॥ १९७५॥ प्रकारान्तरेणापि संशयकारणमाहअहवाऽणाइत्तणओ खस्स व किं कम्म-जीवजोगस्स। अविओगाओ न भवे संसाराभाव एव त्ति? ॥ १९७६ ॥
अथवा, त्वमेवं मन्यसे- नूनं संसाराभाव एव न भवेत् । कुतः । अवियोगात्-वियोगायोगात् । कस्य ? । कर्म-जीवयोः संयोगस्य । कुतः । अनादित्वात् । खस्येव । इह ययोरनादिः संयोगस्तयोवियोगो नास्ति, यथा जीवा-ऽऽकाशयोः, अनादिश्च जीवकर्मणोः संयोगः ततो वियोगानुपपत्तिः, ततश्च न संसाराभावः। तथा च सति कुतो मोक्षः ? इति ॥ १९७६ ॥
___ अथ प्रत्यासत्तेरेवानन्तरोक्तस्यैव प्रतिविधानमाहपेडिवज्ज मण्डिओ इव बियोगमिह कम्म-जीवजोगस्स । तमणाइणो वि कंचग-धाऊण व णाण-किरियाहिं॥१९७७॥
_ 'अणाइणो वित्ति' अनादेरपि जीव-कर्मसंयोगस्य 'त' इति त्वं प्रतिपद्यस्व वियोगम्, बन्ध-मोक्षवादे मण्डिकवत् । कयोरिव यो वियोगः। काञ्चन-धातुपाषाणयोरिव । किं निर्हेतुक एव जीव-कर्मणोवियोगः। न, इत्याह-ज्ञान-क्रियाभ्याम् । इदमुक्तं भवति
1 अथवाऽनादित्वतः खस्येव किं कर्म-जीवयोगस्य । अवियोगाद् न भवेत् संसाराभाव एवेति ॥ १९७६ ॥ २ प्रतिपयस्व मण्डिक इव वियोगमिह कर्म जीवयोगस्य । त्वमनादेरपि काचन-धास्वोरिव ज्ञान क्रियाभ्याम् ॥ १९७७ ॥
STS हर
८१६॥
For Personal and Private Use Onty
सित