SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ हवृत्तिः। ।।८१७॥ नायमेकान्तो यदनादिसंयोगो न भिद्यते, यतः काश्चन-धातुपाषाणयोरनादिरपि संयोगोऽन्यादिसंपर्केण विघटत एव, तहजीव-कर्मसंसोसायोगस्यापि सम्यग्ज्ञान-क्रियाभ्यां वियोग मण्डिकवत् त्वमपीह प्रतिपद्यस्वेति ॥ १९७७ ।। अथ प्रकारान्तरेणापि मोक्षाभावप्रतिपादक प्रभासाभिप्रायं भगवान् प्रकटयितुमाह 'जं नारगाइभावो संसारो नारगाइभिण्णो य । को जीवो तं मन्नसि तन्नासे जीवनासो त्ति ॥ १९७८ ॥ यद् यस्माद् नारक-तिर्यग-नरा-ऽमरभाव एव नारकादित्वमेव संसार उच्यते नान्यः, नारकादिपर्यायभिन्नश्च कोऽन्यो जीवः ?न कोऽपीत्यर्थः, नारकादिभावादन्यत्वेन कदाचिदपि जीवस्यानुपलम्भादिति भावः । ततस्तन्नाशे नारकादिभावरूपसंसारनाशे जीवस्य खखरूपनाशात् सर्वथा नाश एव भवति; ततः कस्यासौ मोक्षः ? । इति त्वं मन्यसे ॥ १९७८ ॥ तदेतदयुक्तम् कुतः ? इत्याहने हि नारगाइपज्जायमेत्तनासम्मि सव्वहा नासो । जीवद्दव्वस्स मओ मुद्दानासे व हेमस्स ॥ १९७९ ॥ कम्मकओ संसारो तन्नासे तस्स जुज्जए नासो । जीवत्तमकम्मकयं तन्नासे तस्स को नासो ? ॥ १९८० ॥ नारक तिर्यगादिरूपेण यो भावः स जीवस्य पर्याय एव । न च पर्यायमात्रनाशे पर्यायिणो जीवद्रव्यस्यापि सर्वथा नाशो मतः, कथञ्चित्तु भवत्यपि । न हि मुद्रादिपर्यायमात्रनाशे हेनः सुवर्णस्य सर्वथा नाशो दृष्टः । ततो नारकादिसंसारपर्यायनिवृत्ती मुक्तिपर्यायान्तरोत्पत्तिर्जीवस्य, मुद्रापर्यायनिवृत्तौ कर्णपूरपर्यायान्तरोत्पत्तिरिव सुवर्णस्य, न किञ्चिद् विरुध्यत इति । ननु यथा कर्मणो नाशे संसारो नश्यति तथा तन्नाशे जीवत्वस्यापि नाशाद् मोक्षाभावो भविष्यति । एतदप्यसारम् । कुतः ? इत्याह'कम्मकओ इत्यादि कर्मकृतः कर्मजनितः संसारः, ततस्तन्नाशे कर्मनाशे तस्य संसारस्य नाशो युज्यत एव, कारणाभावे कार्याभावस्य सुप्रतीतत्वात् । जीवत्वं पुनरनादिकालप्रवृत्तत्वात् कर्मकृतं न भवति, अतस्तन्नाशे कर्मनाशे तस्य जीवस्य को नाशः?- न कश्चित कारण-व्यापकयोरेव कार्य-व्याप्यनिवर्तकत्वात्। कर्म तु जीवस्य न कारणं नापि व्यापकमिति भावः ॥ १९७९ ॥ १९८०॥ सर , यद् नारकादिभावः संसारो नारकादिभिन्नत्र । को जीवस्त्वं मन्यसे तमाशे जीवनाश इति ॥ १९७८ ॥ २ महिनारकादिपर्यायमाचनाशे सर्वथा नाशः। जीवद्रव्यस्य मतो मुद्रानाश इव हेनः॥ १९७९ ॥ 'कर्मकृतः संसारस्तमाशे तस्व युज्यते नाशः । जीवत्वमकर्मकृतं तबाशे तस्य को नाशः ॥ १९८० ॥ 11८१७॥
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy