Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 14
________________ विशेषा ।।८१२॥ वर्तते । ततोऽनैकान्तिकस्त्वदुक्तो हेतुरिति भावः । इदमुक्तं भवति- उत्पाद-व्यय-ध्रौव्यात्मकं वस्तु । ततश्च यथोत्पत्तिमत्त्वाद् विना| शित्वं सिध्यति तथा धौव्यात्मकत्वाद् वस्तुनः कथश्चिद् नित्यत्वमपि सिध्यति । ततश्चेदमपि शक्यते वक्तुम्- नित्यं विज्ञानम् , उत्पत्तिमत्त्वात् , घटवत् । ततश्च कथश्चिनित्याद् विज्ञानादभिन्नस्य जीवस्य नित्यत्वाद् न परलोकाभाव इति ॥ १९६१ ॥ ___ अथवा, विरुद्धाव्यभिचार्यप्ययमुत्पत्तिमत्वरूपो हेतुः, प्रत्यनुमानसद्भावात् । किं पुनस्तत् प्रत्यनुमानम् ? इत्याहअहवा वत्थुत्तणओ विणासि चेओ न होइ कुंभो व्य । उप्पत्तिमदादित्ते कहमविणासी घडो, बुद्धी ?॥१९६२॥ एकान्तेन विनाशि विनश्वरं चेतो विज्ञानं न भवति, वस्तुत्वात् , कुम्भवत् । ततोऽस्य प्रत्यनुमानस्योपस्थापना विरुद्धाव्यभिचार्यप्युत्पत्तिमत्वलक्षणो हेतुः । यदुक्तम्-'नैणु एवं चिय साहणमविणासित्ते वि' इत्यादि, तत्र परस्येयं बुद्धिः स्यात् । कथंभूता बुद्धिः? इत्याह- कथेनुत्पत्तिमत्वाद् दृष्टान्तत्वेनोपन्यस्तो घटोऽविनाशी सिध्यति ?- न कथश्चित् , घटस्य विनाशित्वेन सुप्रतीतत्वात् । ततश्च दृष्टान्तेऽविनाशित्वस्यासिद्धेष्टिान्तिके विज्ञाने तद् न सिध्यतीति परस्याभिप्राय इति ॥ १९६२ ।। अत्रोत्तरमाह सैव-रस-गंध-फासा संखा संठाण-दव्व-सत्तीओ। कुंभो तिजओताओ पसूइ-विच्छित्ति-धुवधम्मा ॥१९६३॥ इह रूप-रस-गन्ध-स्पर्शलक्षणो गुणसमुदायः, एकलक्षणा संख्या, पृथुबुनोदरायाकारलक्षणं संस्थानम् , मृद्र्व्यम् , जलाहरणादिशक्तिश्चेत्येतानि समुदितानि यतः कुम्भ इत्युच्यते, ताश्च रूप-रस-गन्ध-स्पर्श-संख्या-संस्थान-द्रव्य-शक्तयः प्रसूति-विच्छित्ति-ध्रौव्यधमिण्य उत्पाद-व्यय-ध्रौव्यस्वरूपाः, तत उत्पत्तिमत्त्वादविनाश्यपि घटः सिध्यतीति ॥ १९६३ ॥ एतदेव विस्तरतो भावयन्नाहइह पिण्डो पिण्डागार-सत्तिपज्जायविलयसमकालं । उप्पजइ कुंभागार-सत्तिपज्जायरूवेण ॥ १९६४ ॥ रूवाई दव्वयाए न जाइ न य वेइ तेण सो निच्चो । एवं उप्पाय-व्वय-धुवस्सहावं मयं सव्वं ॥१९६५ ॥ १ घ. छ. 'प्रव'। २ अथवा वस्तुस्वतो विनाशि चेतो न भवति कुम्भ इव । उत्पत्तिमदादित्वे कथमविनाशी घटो, बुद्धिः? ॥ १९६२ ॥ ३ गाथा १९६१॥ ४ रूप-रस-गन्ध-स्पर्शाः संख्या संस्थान-अव्य-शक्तयः । कुम्भ इति यतस्ताः प्रसूति व्यवच्छित्ति ध्रुवधर्माणः ॥ १९६३ ॥ ५इह पिण्डः पिण्डाकार-शक्तिपर्यायविलयसमकालम् । उत्पद्यते कुम्भाकार-शक्तिपर्यायरूपेण ॥ १९६४॥ रूपादि म्यतया न जायते न च व्येति तेन स नित्यः । एवमुत्पाद-व्यय-धौम्यस्वभावं मतं सर्वम् ॥ १९६५॥ ८१२॥ Jan Education Internal For Personal and Price Use Only EAMwww.jainmibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 202