Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 32
________________ उपस० ६ Jain Education Internal २ तेनोक्तम् - राजेन्द्र ! न प्रष्टव्यम्, अकथिते स्तोकदुःखम् कथिते तु महादुःखं भविष्यति । राज्ञा 'विशेषः पृष्टः स माह - लक्षमूल्यो हारो यत्समीपाल 'लभ्यते स तत्र पट्टे राजा भविष्यति, नात्र संशयो देवतोक्तत्वात् । परं बहुभिर्वर्षैः । प्रत्ययोत्र - इतस्तृतीयदिने हस्ती मरिष्यति । राजा कर्णयोस्तत्र त्रपुप्रायं तदाकर्ण्य क्षणं मूर्छित इव तस्थौ । मन्त्री प्राह - राजन् ! चिन्ता न कार्या, भवितव्यता केनापि न टलति । यतः - " भवितव्यं भवत्येव नालिकेरफलाम्बुवत् । गन्तव्यं गमयत्येव गजयुक्तकपित्थवत् " || २७ ॥ तृतीयदिने गजो विपन्नः, तदुक्तं सत्यं जातम् । उक्तं च "उदयति यदि भानुः पश्चिमायां दिशायां विकसति यदि पद्मं पर्वताग्रे शिलायाम् । प्रचलति यदि मेरुः, शीततां याति वह्निस्तदपि न चलतीयं भाविनी कर्मरेखा" ॥ २८ ॥ ततो राजा साहसं कृत्वा स्वपुत्रस्य विवाहं महता महेन कारितवान् । हारगमन - विवाहभवनाभ्यां विषवाद- हर्षभाग जातो नृपः ततो मन्त्रिणं प्रत्याह- हारतस्करस्य किं येन राज्यं प्रोक्तं तदसंभाव्यम् ? तस्य शूल्यामेव राज्यं दास्यामि । मत्पुत्रा एव मद्राज्यं पालयिष्यन्ति । "मन्त्रिणा उक्तम् - स्वामिन् ! एवमेवेति । राजा १ क. विशेषतः । २ क. लप्स्यते । ३ क पुस्तके इतः श्लोकोऽयमधिकः – उक्तं च- अवश्यंभाविभावानां प्रतीकारो न विद्यते । तदा दुःखेनाऽबाध्यन्त नल - राम - युधिष्ठिराः ॥ ४क. किञ्चिदज्ञेन । ५ क. नास्त्येतत् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116