Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 76
________________ किं कुर्मो वयम्, विषमे सङ्कटे पतिताः स्म । अट्टमी - चतुर्दश्यादौ विशेषेण शरीरभारों भवति । किञ्चिन भुङ्क्ते, न जल्पति, भाषितापि नोत्तरं दत्ते । अस्याः पाणिग्रहणमपि को न करोति । तेनाsहो ! प्रियङ्कर' ! परकार्यकर' ! मच्चिन्तामपहर, कृपां कुरु, केनाप्युपायेन गुणः स्यात्, तथा त्वं चिन्तय । यावद्धनं विलोक्यते तत् कथय, यथाऽर्पयामि । अस्थिरेण धनेन बहुमलितेनापि किं प्रयोजनम् - यदङ्गजाद्यर्थे नायाति । यतः— 'देवे गुरौ च धर्मे च स्वजने स्वसुतादिषु । यद्धनं सफलं न स्थात् तेन किं दुःखहेतुना " ॥ १५० ॥ कुमारः प्राह - अगुरु- कर्पूर - कस्तूरी - प्रमुखभोगं समानयत । यथा किञ्चित्प्रतिकारं करोमि । अस्याः १ पुण्यं बलवत्तरं भविष्यति, तदा मत्कृतोद्यमः सफलो भविष्यति । उक्तं च Jain Education International 666 “उद्यमः प्राणिनां प्रायः कृतोऽपि सफलस्तदा । यदा प्राचीनपुण्यानि सबलानि भवन्ति हि ॥ १५१ ॥ मन्त्रिणा भोग - पुष्पादिकमानाय्य तस्मै समर्पितम् । ततः कुमारोऽष्टमी - चतुर्दशीषु श्रीपार्श्वनाथं पुष्पै: मपूज्य, भोगं विधाय पञ्चामृतहोमं कृत्वा सदोपसर्गहरस्तवं पञ्चशतीवारं गणयति । शनैः शनैः किंचिद् गुणो जायमानोऽस्ति । अस्मिन्नवसरे कुमारस्य यज्जातं तच्छृणुत प्रियङ्करगृहे तावता कोऽपि ब्राह्मणो निर्द्धनो मध्यमवया देशा १ क. शरीरेण । २-३ क - रः । ४ क. यत् स्वा-५ क. कुमरः । ६ क. कृत्वा । ७ क. पश्चात् । ८ क. उद्यमः सफलः प्रायः । ९ क. च। १० क. नास्त्येतत् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116