Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 74
________________ अन्तरः सम्भाव्यते । विशेषतो भोगम्, गुणनं च कृतवान् । तेन 'दुष्टव्यन्तरो विद्युदुद्योतवत् पलायितः । ततो महेभ्यः पार्श्वस्तव गुणनपूर्व स्तुत्वा नव्यावासे तस्थौ । धनदत्तेन स्वकुटुम्बा नामग्रे प्रोक्तम्- प्रियङ्करस्य भाग्यं महदस्ति । अनेन महानुपकार आत्मनां कृतः, तेनास्मै श्रीमतीनाम्नी स्त्रपुत्री दीयते । स्वजनैरुक्तम् - इष्टं वैद्योपदिष्टम्, दुग्धं प्राग्मधुरम्, पुनर्मध्ये क्षिप्तशर्करम् । ततो धनदत्तेन सहर्षचित्तेन प्रियङ्करः स्वपुत्र्याः पाणिग्रहणं कारितः विस्तरेण 'हय-हार-हीर- चीरादि दत्तम् । स सकलत्रः स्वावासे वासं चकार । तृतीया महेभ्यपुत्री श्रीमती प्रिया जाता । ततः कियद्भिर्दिनैर्व्यन्तर निर्द्धाटनवार्त्ता हितकराभिधानमन्त्रीश्वरेण श्रुता । 'प्रायः मच्छन्नकृतं पुण्यं शतशा खतामेति । ततः प्रियङ्कर भाकारितः, स्वागतादिकं पृष्टम् । उक्तम् 66 'एह्यागच्छ समाविशाऽऽसनमिदं प्रीतोऽस्मि ते दर्शनात्, का वार्त्ता किमु दुर्बलोऽसि च कथं कस्माचिरं दृश्यसे । इत्येवं गृहमागतं प्रणयिनं ये भाषयन्त्यादरात्, तेषां युक्तमशङ्कितेन मनसा गेहानि गन्तुं सदा ॥ १४५ ॥ अहो कुमारः निष्कारणं तव परोपकारकर्तृत्वं श्रुतम् । यथा परोपकाराय वहन्ति नयः, परोपकाराय फलन्ति वृक्षाः । परोपकाराय दुहन्ति गावः परोपकाराय सतां विभूतयः || १४६|| Jain Education International १ क. स । २ क सुखे (षे) न । ३. जादि ४ महाहार कजटितमुद्रिका मुक्त फलादोनि दत्तानि । ५ क. प्राप्तः । ६ क. येतः । ७ क. स्वागतं च । ८ क. परिदुर्बलो । ९ क. चिराद् । १० क, वेश्म (न) शङ्कितेन मनसा गन्तुं यदा शिष्यते ।११क कुमर ! । १२ क. यतः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116