Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर- 8 श्रावकोऽस्ति, चैौरदण्डार्हो नास्ति इति विमृश्य करणीयम् । यतः
स्तोत्र
118011
'सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुगलच्या स्वयमेव सम्पदा || १९४॥ सगुणमपगुणं वा कुर्वतः कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्म्मणामाविपत्ते - भवति हृदयदाही शल्यतुल्यो विपाकः || १९५|| स्वामिन्नस्य विनय एव कुलीनत्वम्, सदाचारत्वं च कथयति । उक्तं च
हंसा गर्ति पिकयुवा कलकूजितानि नृत्यं शिखी परमशौर्यगुगं मृगेन्द्रः । सौरभ्यशैत्य ललितं मलयाद्रिवृक्षाः कैः शिक्षिता विनयकर्म तथा कुलीनाः ? || १९६ || राजन् ! देवविलसितमिदं ज्ञेयम् । राज्ञेोक्तम् – मन्त्रीश्वर ! वया जामातृत्वादेतस्य पक्षः क्रियमाणोऽस्ति, परं चौरपक्षः कस्यापि न श्रेयस्करः ! यतः -
are alreat मन्त्री भेदज्ञः क्रयविक्रयी । अन्नदः स्थानदचैव चौरः सप्तविधः स्मृतः ॥ १९७॥
ततो मन्त्री भीतस्तूष्णीं कृत्वा स्थितः । राज्ञा सेवकानामुक्तम् - एष हारतस्करो दृढं बध्यताम् । ततस्तैस्तदैव बद्ध: । मन्त्रिणं राजाह - हारतस्करस्य 'भूमिदेवनैमित्तिकेन राज्यमुक्तमभूत् परं मदुक्तं शूलीराज्यं भविष्यति, १ किरातार्जुनीये भारविवचः । २ क. मन्त्रिन् । ३ क. राज्ञोऽग्रे । ४ क. भूदेवेन । ५ क. शूल्यारोपणमेव ।
For Private & Personal Use Only
Jain Education International
| प्रभाविनी.
॥४०॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116