Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
पुत्रप्रसादात् । यतः -
ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः ॥ १२३॥ | अन्यदा प्रियङ्करः श्रीदेवगुरुस्मरण - नमस्कारो-पसर्गहर' गुणनादि विशेषध्यानं कृत्वा सुप्तः । तदा रात्रौ निशीथात्परतो' महाश्चर्यकारकं स्वयं लब्धवान् । जागरितो नमस्कारानेव गुणयति । यतः -
Jain Education International
४ जिणसासणस्स सारो चउदसपुव्वाण जो समुद्धारो । जस्स मणे नवकारो संसारो तस्स किं कुणइ ? ॥ १२३ ॥ एसो मंगललिओ दुहविलओ सयलसंतिजणओ य । नवकारपरममंतो चिंतिअमित्तो मुहं देइ ॥ १२४ ॥ प्राग्वृद्धमुखात् श्रुतम् - 'स्वप्नं प्रेक्ष्य निद्रा न कार्या' । उक्तं च
सुस्वनं प्रेक्ष्य न स्वप्यं कथ्यमन्हि च सद्गुरोः । दुःस्वप्नं पुनरालोक्य कार्यः प्रोक्तविपर्ययः ॥ १२५ ॥ प्रातः स्वपितुरग्रे स्वप्नोपलाभस्वरूपं प्रोवाच --- यथा, मया स्वशरीरादन्त्रजालं 'कृष्ट्वा पृथक्पृथक्कृतैः स्वैरन्त्रैरशोकनगरं शनैः शनैर्वेष्टितम् । ततश्व " शरीरं वैश्वानरे जाज्वल्यमानं दृष्ट्वा यावज्जलेनोपशामयति तावज्जागरितः ।
१ क- स्तवन- गु- । २क. पुरतो । ३ क. गणयति । ४ जिनशासनस्य सारः चतुर्दशपूणां यः समुद्धारः । यस्य मनसि नमस्कारः संसारस्तस्य किं करोति ? ॥ ५ क. हिए ( हृदये ) ६ एष मङ्गलनिलयो दुःखविलयः रुकलशान्तिजनकश्च । नमस्कार परममन्त्रः चिन्तितमात्रः सुखं ददाति ॥ ७ क - पुस्तके समधिकमेवम् - नमस्कारसमो मन्त्रः शत्रुंजयसमो गिरिः । गजेन्द्रपदजं नीरं निद्वंद्वं जगतीतले ॥ ८ क. वि वेकविलासे । ९क दृष्ट्वा । १० क. स्वशरीरं । ११ क. छं ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116