Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपस० १५
Jain Education International
कुमारः सरसि गतः । उपाध्यायो मिलितः । मणामपूर्वकमेकान्ते तस्मै 'स्वप्नं कथयामास । स्वप्नं श्रुत्वा हृदये घूर्णित इव तस्थौ । इदं स्वप्नं राज्यदायकं पुनः पुनः पप्रच्छ । ततः स कुमारं समाकार्य स्वगृहे याति, तावद - ध्वनि स्त्रीवृन्दम् - अक्षतभृतं नालिकेरयुतं स्थालं स्वहस्ते गृहीला सन्मुखं समागच्छन्तं ददर्श । पण्डितो दध्यौ, वर्द्धापनं सन्मुखं मिलितम्, ततश्च नरशीर्षे पट्टो मिलितः, एषोऽपि राज्यदः । उक्तं च
प्रवेशे निर्गमे वापि पट्टो भवति सन्मुखः । तस्य राज्यं समादेश्यं शकुनज्ञेन निश्चितम् ॥ १२९ ॥
अग्रे 'जलमद्यपूर्णः ( घटः ) करको नगरमध्ये गच्छतो 'स्तयोर्मिलितः । तदा पण्डितेनोक्तम् — कुमार शकुनाः प्रधाना जायमानास्सन्ति । तेनोक्तम् — कथम् ? पण्डित आह- पूर्वं वर्द्धापनम्, ततः पट्टः, ततश्चैष करकः । कुमारेणोक्तम्- अस्मिन् करके किमस्ति ? स आह
मदः प्रमादः कलहश्च निद्रा द्रव्यक्षयो जीवितनाशनं च । स्वर्गस्य हानिर्नरकस्य पन्था अष्टावनर्थाः करके वसन्ति ॥ १३० ॥ कुमार ऊचे–हे पण्डित ! यत्रानर्थास्तत्र प्रवराः शकुनाः कथम् ? पण्डितः प्राह एवंविधं किं स्यात् तेनोक्तम् - मद्यम् । तर्हि एष मद्यभृतः करको वर्त्तते स शास्त्रज्ञैर्महाशकुनत्वेन प्रतिष्ठितः । यतः - कन्या - साधु - महीश - मित्र- महिषी दुर्वादिवर्धापनं, वीणा - मृण- मणि- चामरा - क्षत- फलं छत्रा - ऽग्ज' -दीप-ध्वजाः ।
१ क. स्वस्वनं । २ क. कुमरं । ३ क. हस्ते । ४ क. मद्यपूर्णः करकः । ५ क. -तां तेषां । ६ क. ज्य- ।
For Private & Personal Use Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116