Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 340
________________ नपपत्नीनिदर्शनम् उपदेशपदाकयमेत्थ पसंगणं इमिणा विहिणा निओगओ गाणं । आणाजोगावि इह एसोच्चिय हाइ णायच्चो ।1८८६।। महाग्रंथः । कृतं पर्याप्तमत्र व्याख्याविधिकथने प्रसंगेन विस्तारेण, अनेन मण्डलीप्रमार्जनादिना विधिना नियोगतो नियमेन ज्ञानमागमश्रवणप्रवृत्तस्य श्रोतुः सम्पद्यते । आज्ञायोगाऽपि सम्यगज्ञानसाध्योऽत्र व्याख्याने एष एवोक्ताचारपरिपालनारूपो भवति ज्ञातव्यः ॥८८६॥ ज्ञानवांश्च यत्करोति तदाह७४६॥ xणाणि य णिच्छएणं पसाहई इच्छियं इहं कजं । बहुपडिबंधजुयपि हु तहा तहा तयविरोहेण ।।८८७ । ज्ञानी चात्र विधिगृहीतशास्त्रार्थावबोधः पुनः पुमान्निश्चयेन प्रसाधयति निष्पादयतीप्सितमाप्तुमिष्टमिह कार्य धर्मार्थाद्याराद्यनरपं बहुप्रतिबन्धयुतमप्यनेकविघ्नप्रतिस्खलितमपि, तथा तथा तत्तहव्यक्षेत्रादिस्वरूपानुवर्तनापायेन, तदविरोधेन तस्येप्सितकार्यस्य योऽविरोधो घटना कार्यान्तरैरीप्सितैरेव तेनोपलक्षितः सन् । न हि धर्मान्तराणि बाधमानो धर्मो धर्मरपता प्रतिपद्यते । यथोक्तम्-"धर्म यो बाधते धर्मो न स धर्मः सतां मतः । अविरोधेन यो धर्मः स धर्म इति कोतितः ॥१॥" तथा ।"वेदवृद्धानुपचरेच्छिक्षितागमतः स्वयम् । अहेरिव हि धर्मस्य सूक्ष्मा दुरनुगा गतिः॥१॥" ।।८८७॥ मग्गे य जायइ तहा केई भावाणुवत्तणणएण । बोजाहाणं पायं तदुचियाणं कुणइ एसो ॥८८८।। मार्गे च सम्यग्दर्शनादिके निर्वाणपथे योजयति, तथेति समुच्चये, कांश्चिद्भव्यसत्त्वान् भावानुवर्तननयेन मदुः खरो मध्यमो वा यः शिक्षणीयस्य प्राणिनो भावो मनःपरिणामस्तस्यानुवर्तनमेव नयो नीतिः सामलक्षणभावेनेयमेव च प्रधाना नीतिः कार्यसिद्धी । यथोक्तम्-"यद्यप्युपायाश्चत्वारः प्रथिताः साध्यसाधने । संज्ञामात्र फलं तेषां सिद्धिः साम्नि प्रति ॥७४६॥ E

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448