Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 372
________________ उपदेशपदः महााग्रंथः विषयाभ्यासाहरणम् ।।७७८॥ परस्परवलक्षण्यादेतस्योभयस्य यतोऽनयोर्भेदः । ततोऽन्यतरापोहेनोभयमपि प्रशस्तमिति भावः ॥९६७।। इत्थं व्याव-10 हारनयमतमभिधाय निश्चयनयमतमाह--आभ्यन्तरा चेष्टा न नैवं बाह्यां चेष्टां व्यभिचरति, वृक्ष इव स्वच्छायां नियोगतो नियमेन, तथा न नैव बाविमनेन क्रमेणाभ्यन्तरां चेष्टां व्यभिचरति, वृक्ष इव मूलानि, इत्यस्माद्धेतोरन्ये निश्चयनयव्यवहारिणो ब्रुवते एककचेष्टा उभयरूपा बाह्याभ्यन्तररूपा एषा । ९६८।। तदनु यत्तस्य कुरुचन्द्रस्य सम्पन्नं तदाह-- एवं चानेनैवंप्रकारेण मातापितृप्रतिपत्तिकरणलक्षणेन तस्य मार्गलाभः सम्पन्नः । प्रवज्याराधना च सर्वविरतिप्रतिपत्तिरूपा सुप्रशस्ता निरतिचारा । पुनः कोदृशीत्याह-दुर्गतिद्वारस्थगनी नरकादिदुष्टगतिप्रवेशनिरोधिनी, सुगतेः सुदेवत्वसुमानुषत्वरूपायाः शिवस्य च मोक्षरूपस्य प्रसाधिका चैव सम्पन्ना ॥९६९।। समाप्तमिदं सतताभ्यासोदाहरणम् ॥ विसयभासाहरणं सुयओ इह सुहपरपरं पत्तो । तित्थगरचूयमंजरिपूजाबीजेण सकलत्तो ॥९७०।। विषयाभ्यासाहरणं-शुककः कोर इह जगति सुखपरम्परां कल्याणसन्तति प्राप्तः । कथमित्याह-तीर्थकरस्याहतः प्रतिमारूपस्य चूतमञ्जरीभिः सहकारपुष्पकलिकाभिः पूजाभ्यर्चनं सैव बीजं पुण्यानुबन्धिपुण्यं तेन तीर्थकरचूतमञ्जरीपूजाबीजे न सकलत्रः सन्निति ॥९७०।। सुखपरम्पराप्राप्तिकारणमाह;कुसलासयहेऊओ विसिटूसुहहेउओ य णियमेण । सुद्धं पुण्णफलं चिय जीवं पावा णियत्तेइ ॥९७१।। कुशलाशयहेतुतः हेतुशब्दस्य भावप्रधानत्वेन कुशलाशयहेतुत्वतः सुशीलत्वादिप्रशस्तपरिणामकारणत्वात्, विशिष्टसुखहेतुतश्च विशिष्टस्य परिणामसुन्दरस्य सुखस्यानुकूलविषयानुभवजन्यशर्मलक्षणस्य हेतुत्वाच्च नियमेन निश्चयेन शुद्ध ॥७७८।।

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448