________________
उपदेशपदः महााग्रंथः
विषयाभ्यासाहरणम्
।।७७८॥
परस्परवलक्षण्यादेतस्योभयस्य यतोऽनयोर्भेदः । ततोऽन्यतरापोहेनोभयमपि प्रशस्तमिति भावः ॥९६७।। इत्थं व्याव-10 हारनयमतमभिधाय निश्चयनयमतमाह--आभ्यन्तरा चेष्टा न नैवं बाह्यां चेष्टां व्यभिचरति, वृक्ष इव स्वच्छायां नियोगतो नियमेन, तथा न नैव बाविमनेन क्रमेणाभ्यन्तरां चेष्टां व्यभिचरति, वृक्ष इव मूलानि, इत्यस्माद्धेतोरन्ये निश्चयनयव्यवहारिणो ब्रुवते एककचेष्टा उभयरूपा बाह्याभ्यन्तररूपा एषा । ९६८।। तदनु यत्तस्य कुरुचन्द्रस्य सम्पन्नं तदाह-- एवं चानेनैवंप्रकारेण मातापितृप्रतिपत्तिकरणलक्षणेन तस्य मार्गलाभः सम्पन्नः । प्रवज्याराधना च सर्वविरतिप्रतिपत्तिरूपा सुप्रशस्ता निरतिचारा । पुनः कोदृशीत्याह-दुर्गतिद्वारस्थगनी नरकादिदुष्टगतिप्रवेशनिरोधिनी, सुगतेः सुदेवत्वसुमानुषत्वरूपायाः शिवस्य च मोक्षरूपस्य प्रसाधिका चैव सम्पन्ना ॥९६९।। समाप्तमिदं सतताभ्यासोदाहरणम् ॥
विसयभासाहरणं सुयओ इह सुहपरपरं पत्तो । तित्थगरचूयमंजरिपूजाबीजेण सकलत्तो ॥९७०।।
विषयाभ्यासाहरणं-शुककः कोर इह जगति सुखपरम्परां कल्याणसन्तति प्राप्तः । कथमित्याह-तीर्थकरस्याहतः प्रतिमारूपस्य चूतमञ्जरीभिः सहकारपुष्पकलिकाभिः पूजाभ्यर्चनं सैव बीजं पुण्यानुबन्धिपुण्यं तेन तीर्थकरचूतमञ्जरीपूजाबीजे न सकलत्रः सन्निति ॥९७०।। सुखपरम्पराप्राप्तिकारणमाह;कुसलासयहेऊओ विसिटूसुहहेउओ य णियमेण । सुद्धं पुण्णफलं चिय जीवं पावा णियत्तेइ ॥९७१।।
कुशलाशयहेतुतः हेतुशब्दस्य भावप्रधानत्वेन कुशलाशयहेतुत्वतः सुशीलत्वादिप्रशस्तपरिणामकारणत्वात्, विशिष्टसुखहेतुतश्च विशिष्टस्य परिणामसुन्दरस्य सुखस्यानुकूलविषयानुभवजन्यशर्मलक्षणस्य हेतुत्वाच्च नियमेन निश्चयेन शुद्ध
॥७७८।।