SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ७७७।। कुठारी जिह्वा वर्तते । केषामित्याह--धर्मेतरतरूणां, धर्मः श्रुतचारित्ररूपः, इतरस्त्वधर्मस्तावेव तरवस्तेषाम् । तथाहिअसम्यक् प्रयुक्तंषा धर्मतन् , सम्यक् प्रयुक्ताऽधर्मतःश्छिनत्तीति ।।९६३॥ एवं यथैव भवानाह तथैव इत्येतदिति ब्रुवतां तेषां मातापितृप्रभृतीनां बोधो जातः । 'धम्मपरिच्छाए पायसो नवरं'त्ति नवरं केवलं धर्मपरीक्षायां प्रकृतायां । सत्यामाभ्यां पृष्टः, यथा-प्रायशो बाहुल्यवृत्त्या मातापितृपूजाघातयोर्मध्येऽत्र जगति किं युक्तमुचितमत्यर्थं बाढमतिशोनेत्यर्थः ।।६६४॥ एवमसौ ताभ्यां पृष्टः प्राह--पूजा युक्तेत्याहुः प्रायोऽन्य धार्मिकाः, अहं पुनर्ब्रवीमि--अनेकान्तवादतस्तत्त्वं--अनेकान्तवादेन पूजाघातयोस्तत्त्वं व्यवस्थापनीयम् । अत्र हेतुः--व्यवहारनिश्चयाभ्यां द्विविधावेतौ मातापितरौ यतो ज्ञेयौ वर्तेते इति ॥९६५।। व्यवहारनयमतमाश्रित्याह--व्यवहारतो व्यवहाराभिप्रायेण प्रसिद्धौ जनप्रतीतौ मातापितरौ । तृष्णा लोभो मानश्चाहंकारो निश्रयेन निश्चयमतेनैती मातापितरौ भवतः, सर्वसंसारिणामेतयोरेव जन्मलाभहेतुत्वात् । एवं द्विविध्ये मातापित्रोः प्रतिपादिते यदुचितं तदाह--आदिमकयोर्मातापित्रोः पूजा त्रिसन्ध्यं प्रणामादिका, इतरयोनिश्चयनयमतेन तयोर्वधो विनाश्यता। इतिः वाक्यपरिसमाप्तौ। तत्तस्माद्य क्तमनेकान्तवादस्तत्त्वमिति ॥९६६।। बाह्येतरयोश्चेष्टयोर्बाह्यायाः प्रत्युपेक्षणादिरूपाया इतरस्याश्च ध्यानभावनारूपाया मध्ये का शोभना श्रेयसी चेष्टा वर्त्तते ? एवमुक्तो मातापितृभ्यां प्राहेष राजपुत्र:--अन्यतगपोहेनान्यतरस्या बाह्याया आभ्यन्तराया वा चेष्टाया अपोहेन प्राधान्यनिवारणा न, अप्राधान्यनिवारणा न, उभयं शोभनीया यत्र काले उत्कलितरपतया विज़म्भते सैव तदा शोभनेत्यर्थः । लोकेऽपि बहुष्वपि मध्ये उत्कलितरूपस्यैव राजादिशब्दवाच्यत्वात् । कुत एतदेवमित्थमित्याह--भेदा ॥७७७॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy