SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ उपदेशप जितपुण्यत्वात् ॥९६०॥ एवं सर्वप्रश्नोत्तरविधायी स मातापितृभ्यां भणित इत्येवं वैराग्यभावनया' धर्मज्ञो वर्तसे सतताभ्या महाग्रथ. त्वम् । तथापि धर्मज्ञत्वेऽपि सत्यस्माकं स्थितिमूकत्वाभ्यामुक्तलक्षणाभ्यामिहावसरे दुःखं मनोऽसमाधानलक्षणं करोषि । साहरणम् इत्येवमुक्तः स राजसूनुराह--अद्यापि गन्तव्यस्थानाभावान्न मया गतिः कृता, न पुनः कस्याश्चिदशक्तेरिति ॥९६१।। गन्तव्यस्थानमेव दर्शयति--गन्तव्यं मया स्वगत्या प्रव्रज्याप्रतिपत्तीरूपया गुरुजनस्य मातापितृलक्षणस्य धर्माचार्यस्य च ॥७७६ संगतवृद्धिहेतुर्यथा भवत्येवं गच्छे गुरुपरिवाररूपे । कीदृश इत्याह--इह दीवगशब्दस्य संस्कारद्वयसहनाद् आश्वासद्वीपकयोगिनि, आदिशब्दात प्रकाशदीपकयोगिनि च नान्यादृशे गच्छे युक्तं गमनमिति । इहाश्वासद्वीपोद्विविधः--द्रव्यातो भावतश्च । तत्र द्रव्यतो जलधिजलमध्ये तथाविधोच्चभूभागलक्षणः । सोऽपि स्पन्दनोऽस्पन्दनश्चेति द्विविध एव। तत्र स्पन्दनो यः कदाचिजलेन प्लाव्यते, इतरस्त्वस्पन्दन इति । एवं दीपकोऽपि प्रकाशरूपो द्विविध एव स्थिरोऽस्थिरश्च । तत्र स्थिरोऽत्र तारार्कचन्द्ररूपोस्थिरश्च तृणगोमयकाष्ठाग्निकणप्रदीपरूपः । भावाश्वासद्वीपोऽपि चारित्ररूपो द्विविध एव-स्पन्दनोऽस्पन्दनश्च । तत्र क्षायोपशमिकचारित्ररूप: स्पन्दनः, अतिचारजलेन प्लाव्यमानत्वात्, क्षायिकचारित्ररूपस्त्वेतद्विलक्षण इति । भावप्रकाशदीपस्तु मतिज्ञानादिरूपः । तत्र स्थिरः केवलालोकरूपः, अस्थिरस्तु मत्यादिज्ञान ।।७७६॥ चतुष्टयरूप इति । ततो यत्र गच्छे भावाश्वासद्वीपयोगो भावप्रकाशदीपयोगश्च समस्ति तत्र गच्छे मया गन्तव्यमिति भावः ९६२।। तथा यद् मूकत्वविषये भवद्भिः पृष्टमासीत्तत्रेदमुत्तरं ब्रवीमि च भणाम्येव यदुचितं परिणती सुन्दरं & स्यात्, इतरथा त्वनुचितं पुनर्न युक्तमेव वक्तुं मतिमतां 'जे' इति वचनालंकारे । अत्र हेतुः--यद्यस्मादिहलोके एषा
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy