SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ मितिः पितुः सम्बन्धिनी यदा लब्धा, तदा संवेगसाधनं संवेगसारेण भूत्वा कथनं भावसारमिदं कृतम् ॥९५८॥ एतदेव २ दर्शयति--धर्मकरणेन शुद्धसुकृतापादनेम सर्वतो भोगी सर्वतोमुखप्रवृत्ताद्धनधान्यादेाभादिहभवे परभवे च भोग वान् स्यात् । इतरथातु धर्मस्याकरणे पुनस्तुच्छभोगी, धर्मकरणमन्तरेण निरनुबन्धत्वेन भोगस्य तुच्छफलत्वात् । इतिः ॥७७५॥ प्राग्वत् । तथा, राज्यफलस्तु व्याधिरिति राजस्येव फलमुपचाररूपं यस्य स तथा, तुः प्राग्वत् । सुव्याधिर्गडुव्रणकुष्ठा दिदारुणरोगः । य एव [पचारोऽभिषेकपट्टबन्धवालव्यजनादौ राज्ये प्रवर्तते, स एव सुव्याधावपीति न कश्चिद् विशेषो व्याधिराज्ययोरिति कथं मतिमान् राज्याभिलाषी स्यात् ? तत्क्षणसदृशस्तु व्याधिनिविशेषराज्योत्सवसदृशः पुनरेतेषु प्रत्यक्षतो दृश्यमानेषु पुत्रादिषु 'य उत्सवः' इति वाक्यशेषः । यथा राज्योत्सवो न परिणामसुन्दरः "त्रय एते नरकं यान्ति राजा चित्रकरः कविः ॥” इत्यादि वचनात्, तथैतेऽपि पुत्रजन्माधु त्सवाः प्रमोदहेतुत्वाद्धंगावसानत्वाच्च न परिणामसुन्दराः ॥९५९।। मालालुकाल्पभोगादिज्ञाततो मालायाः पुष्पस्रजोऽल्पो भोगो बहुमूल्याय अपि, आलुकायाश्च वार्घटिकाया अल्पमूल्याया अपि बहुर्भोगः संभावितः । अतो मालालुकाल्पभोगाद्य व ज्ञातं दृष्टान्तस्तस्माद् दुःखकारणं वर्तते । अपेक्षा आलुकायाः स्थिरत्वसंभावनारूपा सतीति । यतः पठ्यते--"अनित्यताकृतबुद्धिानमाल्यो न IAL॥७७५॥ शोचते । नित्यताकृतबुद्धिस्तु भग्नभांडोऽपि शोचते ॥१॥" तथा, धर्मी धर्मवान् दरिद्रकः अल्पारम्भपरिग्रहतया निरारम्भपरिग्रहतया वा दरिद्रः स्यादिहलोके, स एवातो दरिद्रादन्यथा ईश्वरः परलोके स्यात्, प्राग्भवोपात्तपुण्यसंभारत्वात्तस्य । तथान्योऽपीह लोक ईश्वरः सोऽपि परलोकेऽन्यथा दरिद्र इत्यर्थः । आरंभपरिग्रहपरायणत्वेन प्राग्भवेऽनुपा.
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy