________________
सतताभ्यासाहरणम्
उपदेशपदारण क्वचित् पुरुषे दृष्टे, तथा जातक्षणे नवप्रसूतपुत्रोत्सवलक्षणे, तथा 'मयरुयणदरिद्दग भणीसु' इति मतरोदने दरिद्रके च
| भिक्षाचरादौ दृष्टेऽभाणिषुर्भणितवन्तस्ते पार्श्ववत्तिनो जनाः, यथा-किमिह भोगित्वादी तत्त्वमिति ॥९५६॥ स प्राह- लाभकचेतसौ वृद्धयादिप्रयुक्तधनधान्याद्य पचयरूपस्य लाभकस्य चेतसः समयपरिभाषया दाता परिभुज्यमानस्यादिलोकोपभोगी भवति । मूलद्रव्यव्ययेन पुनर्यों भोगी स परमार्थतो भाग्येव (न भवति), निरनुबन्धत्वात्तद्भोगस्यति तावत्
लोके नीतिः। आत्माभिप्रायेण तु भागिनं 'धम्मकरणेण भोगी' इत्यादिना कथयिष्यति । जाते तु पुत्रादौ क्षणो वद्धा॥७७४।।
पनकरूपः सुव्याधितुल्यः सुष्ठ-अतिशयेन व्याधिना कण्डूर्दुप्रभृतिना सदृशः; यथा हि सरोगः कण्डूयमानो मूले किंचित् सुखकारणतया प्रतिभासमानोऽपि परिणामे महान्तमुपतापं दर्शयति, एवं पुत्रजन्मादौ क्षणो विधीयमानः प्रथमत आह्लादमुपनयन्नपि तन्मरणादौ सन्तापहेतुरेव स्यात् । यच्चैतद् मरणदुःखं रोदनक्रियाभिव्यंग्यं तदपेक्षेति अपेक्षानिमित्तमित्यर्थः, स्वजनत्वेन ह्यपेक्षितो जनोऽबन्धुरपि म्रियमाणो दुःखमुत्पादयति, न तु बन्धुरपि परतया संकल्पितः । कुतोऽप्यपराधादिति । तथा, दरिद्रविषये किंचिदुच्यते । किं भवद्भिरिह दरिद्रो विवक्षितः, अथ परलोके दरिद्रः, इहपरलोकदरिद्रयोदूंरं विसद्दशत्वात् ॥९५७।। यदा तेनैवं चतुर्णामर्थानां पृष्टानामुत्तराणि विहितानि तदा लोकेन राजनिवेदनं कृतम्, यथा--अयमित्थमित्थं च भाषितः । ततो राज्ञा स्वसमीपमानाय्य तस्य दर्शनमकारि तोषो हर्षश्च वृत्तः ततो राज्ञा प्रियवचनप्रयोगपूर्वक 'पुच्छ पसिणत्थे' इति प्राक्प्रदर्शितप्रश्नार्थस्य पृच्छा कृता । तेन च तदर्थे निवेदिते नमनं परिणाम धर्मगोचरो जनकस्य वृत्तः । ततोऽनुज्ञा--अस्माकमनुमतं यत् त्वया निवेद्यते इत्येवंलक्षणाऽनु
७७४।।