SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 1 ग्लानस्य रोगिणः साधुश्रावकादेः भैषज्यदानादीनि भैषज्यदानमौषधप्रदानमादिशब्दादंगप्रतिजागरणादीनि शेषाणि IXI समाधिकारणानि गृह्यते । तथा, चितिनिर्मलकरणं देवताप्रतिमानमल्यविधानं जातिस्मरणस्य हेतव इत्येते । अन्यत्र पुनरेवमुपलभ्यन्ते-"ब्रह्मचर्येण तपसा सद्वेदाध्ययनेन च । विद्यामन्त्रविशेोण सत्तीसेवनेन च ॥१॥ पित्रोः सम्य॥७७३॥ गपस्थानाद ग्लानभैषज्यदानतः । देवादिशोधनाचैव भवेज्जातिस्मरो नरः ॥९५३।। स च नरकादुद्धृत्तः सन् साकेतपुरे महामहीपतेर्महेन्द्रनाम्नः पत्न्या महिमानामिकायाः कुक्षौ समुद्रदेवाभिधानतया पुत्र उत्पन्नः । तत्र च यौवनस्थस्य तस्य नृपपरिवारोपलम्भाद् मंत्रिप्रभृतेनूपपरिवारस्य सामान्यतः प्राग्भव दृष्टस्योपलम्भादवलोकनात् स्मरणं प्राग भवस्य जातम् । ततो भीतस्त्रस्तः संश्चिन्तयितुमारब्धः । कथं पुनरत्र नरके गन्तव्यमिति विचिन्त्य स्थितिमूकत्वासेवनं स्थितेरचलनस्य मुकत्वस्य च वाग्निरोधरूपस्यैव निषेवणं कृतम् । ततो जनकेन व्याधिनिग्रहार्थं चिकित्सापक्रमे कृते ज्ञाता वैद्य - यथा निर्दोषो वातादिविकारशून्य एष इति ।।९५४॥ मन्त्रिनिवेदना राज्ञा कृता-यथाऽयं निर्दोषोऽपि किमित्येवमवतिछते? इति । ज्ञातं च मन्त्रिणा धन्यः स्मरणाजातिस्मरणत्वलक्षणात् कश्चिदेष जीवो भवादुद्विग्ना वर्तत इति । ततः 'भवठिइदंसणकहणत्ति' भवस्थिते ऋचनुभवरूपाया इतरस्याश्च दर्शनमस्य योग्यं बर्तत इति कथनं निवेदनं मन्त्रिणा राजे कृतम्। तत्त्वज्ञानं गुणसम्पादकं एतस्य मत्सुतस्य भविष्यतीति परिभाव्य राज्ञा तत्र भवस्थितिदर्शने युक्तो नियुक्तः स: ॥९५५।। कथमित्याह-भूषितोऽलंकृतः सन याप्ययानगतः सुखासनरूढः ऋचा विशिष्टपरिवारलक्षणया नि सारितः प्रासादात् । कीदृशः सन्नित्याह- विभागज्ञः हेयोपादेयपदार्थविशेषकुशलः। तत्र च निर्गते भोगिनि भोगभाजि
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy