SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ १७७९। * सर्वकलंकविनिर्मुक्त पुण्यफलमेव पण्यानुबन्धिजन्यसर्वलक्षणोपेतकलत्रपुत्रादिलक्षणमेव वस्तु, जीवमात्मानं पापादनाचा रासेवनारूपानिवर्तयति । इदमुक्तं भवति-शुद्धपुत्रकलत्रादिलाभवतः पुरुषस्य सर्वक्रियासु तदधीनस्य स्वप्नेऽप्यनाचारसेवनं न संभवतीति ।।९७१।। अथ यजन्मानुभवनेन सुखपरम्परामसौ प्राप्तस्तन्निदर्शयन्नाह ;सुग णिहिकंडल सोधम्म ललिय ईसाण देवसेणो य । बंभिद पियंकरचक्कि सिज्झणा होइ विष्णेया ॥९७२।। शुकः कीरः प्रथमभवे, द्वितीये निधीकुण्डलो नाम राजपुत्रो बभूव । तृतीयभवे सौधर्मदेवलोकं गतः। चतुर्थे 'ललिय'त्ति ललिताङ्गकनामा राजपुत्रोऽजनि । पच्चमे त्वीशानदेवलोके देवत्वेनोत्पन्नः । ततोऽपि च्युत्वा देवसेनश्च देवसेननामा राजाङ्गजो जातः । ततो विशिष्टतपःसंयमसेवनेन ब्रह्मलोके इन्द्रत्वेनोत्पन्नः । ततोऽपि च्युत्वा प्रियंकरनामा चक्री । ततो निरतीचारप्रव्रज्यापरिपालनेन सिद्धता भवति विशेयेति ।।९७२।। साम्प्रतं भार्याया भवानभिधित्सुराह;सुविगा पुरंदरजसा उम्मायंती य चंदकंता य । मइसागरो य मंती पिओत्ति पुच्छा य संवेगो ॥९७३॥ सुकिका तावदासीद् आद्यभवे । ततः पुरन्दरयशोनाम्नी राजपुत्री बभूव । ततः सौधर्म गता । ततश्च्युत्वोन्माद्यन्ती च नपसुता जाता । ततस्तपः कृत्वेशानं देवलोकं गता । ततश्च्युत्वा (चन्द्रकान्ता नाम राजसुताऽजनि) मतिसागरमन्त्री प्रियंकरचक्रवत्तिनो बभूव । स च चक्रिण: प्रियो वल्लभोऽत्यर्थमिति कृत्वातिशयज्ञानिनः पृच्छायां कृतायां यथा भगबन् ! केन कारणेनायमस्माकमतीवेष्ट इति। तेनापि पूर्वभवव्यतिकरे कथिते संवेगो जातो द्वयोरपीति ॥९७३।। अर्थतद्वक्तव्यतां विस्तरेण बिभणिषुः सुयमरणेत्यादिगाथाचतुर्दशक (द्वादशक) माह ; ७७९॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy