Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 405
________________ ।।८११॥ दर्शनमभूत् ।।९९३।। तत्र च दर्शनसम्प्राप्तिः सम्यक्त्वप्राप्तिरूपा। तथा, भवपरीत्ततासंसारतुच्छीकरणं सुखपरम्परार्जनं प्रतिभवं विशिष्टविशिष्टतरविशिष्टतमशर्मपरम्परोपार्जनरूपं जातम् । ततो गतिद्विकविगमान्नरकगतितिर्यग्गतिप्रवेशविरहान्माक्षो जातः सप्तमजन्मन्येतस्य नरसुन्दरस्य ॥९९४।। अथैतदनुष्ठानत्रयमपि कथञ्चिदेकमेवेति दर्शयन्नाह ;['एवं विसयगयं चिय सम्वेसि एसिं हतणदाणं । णिच्छयओ भावविसेसओ उ फलभेयमो णेयं ॥९९५॥] एवमुक्तनीत्या विषयगतमेव मोक्षानुकूलभावप्रतिबद्धमेव सर्वेषां त्रयाणामप्येतेषां कुरुचन्द्रादीनां, हन्तेति वाक्यालंकारे, अनुष्ठानं मातापितृविनयादिकृत्यं निश्चयतो निश्चयप्रापकाद व्यवहारनयात् । यद्यवं कथमित्थं फलविशेषः सम्पन्न इत्याशंक्याह-भावविशेषतस्तु भावस्य भववैराग्यलक्षणस्य यो विशेषस्तारतम्यलक्षणस्तस्मात् पुनः फलभेदः फलनानात्वं, 'मा' प्राग्वद्, दृष्टव्यः । यथा माधुर्यसामान्येऽपीक्षुरसखण्डशर्करावर्षागालकानां नानारूपो विशेषः, तथा सामान्येन भववैराग्ये सत्यपि सतताभ्यासादिष्वनुष्ठानेष्वन्योऽन्यं भावभेदो वर्त्तते, तस्माच्च फलविशेष इति ॥९९५।। यत एवम् ; सम्माणुट्ठाणं चिय ता सव्वमिणंति तत्तओ गेयं । णय अपुणबंधगाई मोत्तुं एवं इहं होइ ।।९९६॥ सम्यगनुष्ठानमेवाज्ञानुकूलाचारणमेव, तत तस्मात सवं त्रिप्रकारमपि इदमनुष्ठानं तत्त्वतः पारमार्थिकव्यवहारनयदृष्टया ज्ञेयम् । अत्र हेतुमाह-नच नैव यतोऽपुनर्बन्धकादीन् अपुनर्बन्धकमार्गाभिमुखमार्गपतितान् मुक्त्वा एतदनुष्ठानमिहै १ इयमपि गाया क्वचनादर्शपुस्तकेष्वस्मत्समीपस्थेषु नोपलब्धा । टीकामुपजीव्य त्वत्रोपनिबद्धा। एवमन्यत्रापि सर्वत्र कोष्ठकलिखितेषु मूलपाठेषु टीकापाठेषु च विज्ञेयम् ।

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448