Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 443
________________ S 11८४९।। दाणं च जहात्ति देयं परपोडं मो न कायव्वा । कायव्वोऽसंकप्पो भावेयव्वं भवसरूवं ।।१०३५।। मन्ना माणेयव्वा परिहवियय्वा न केइ जियलोए । लोगोऽणुवत्तियन्वो न निदियवा य केइत्ति ॥१०३६॥ गुणरागो कायव्वो णो कायव्वा कुसोलसंसग्गी । वज्जेयव्वा कोहादयो य सययं पमादो य ।।१०३७।। - सेवयितव्याः शुश्रूषणीयाः सिद्धान्तज्ञायकाः परमपुरुषप्रणीतागमरहस्यविदो गुरवः भक्तिनिर्भरमनोभिः परमप्रमोदापूरितमानसः । श्रोतव्यमाकर्णनीयं नियमेनावश्यंतया प्रतिदिनमित्यर्थः, तेषां सिद्धान्तज्ञायकानां वचनं धर्मोपदेशरूपं, चः प्रागवत , आत्महितं स्वश्रेयस्कारि ॥१०३४।। दानं च ज्ञानाभयधर्मोपग्रहानुकम्पादानभेदभिन्नं यथाशक्ति स्वसाम•नुरूपं देयं दातव्यं, परपीडा परोपतापरूपा मो पूर्ववत् , मनसा वाचा कायेन च नानुष्ठेया, कर्तव्योऽसंकल्पः; संकल्पो नाम स्त्रीगोचरो रागपरिणामः पुरुषाणां, स्त्रीणां त्वेतद्विपर्ययरूपः, तदुक्तं--"काम! जानामि ते मूलं संकल्पात् किल जायसे । अतस्तं न करिष्यामि ततो मे किं करिष्यसि ? ॥१॥" तत एतद्विपर्ययरूपोऽसंकल्पो विषयविराग इत्यर्थः, विषयानुरागविरागयोरेव सर्वानर्थार्थमूलत्वात् । यथोक्तम्--"जयो यद्बाहुबलिनि दशवक्त्रे निपातनम् । जिताजितानि राजेन्द्र ! हृषीकान्या कारणम् ॥१॥" यदि वा, संकल्पः सङ्गतार्थविषयः समर्थभावः । भावयितव्यं भवरवरूपम् । इहार्थाभिधानप्रत्ययास्तुल्यनामघेया इति वचनात् भवस्वरूपविषय उपयोगा भवस्वरूपमुच्यते । ततस्तद् भवदुत्पद्यमानं तथाविधकर्मक्षयोपशमात् तद्भावनाग्रन्थाभ्यासात् प्रयोजनीयं भावयितव्यं भावस्वरूपम् । “यथेह लवणांभाऽभिः पूरितो म लवणोदधिः । शारीरमानसर्दुःखैरसंख्येयैर्भवैस्तथा ॥१॥ किं च स्वप्नाप्तधनवद् न तथ्यमिह किञ्चन । असारं राज्य

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448