Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 447
________________ 11८५३॥ - 16 පපපපපපපපප4 टीकाकार-प्रशस्तिः ००००००००० क्षमालीनोऽत्यन्तं गगनतलतुङ्गकमहिमा, दधानः शैली च स्थितिमतिशुचिं साधुरुचिताम् । बृहद्गच्छोऽतुच्छोच्छलितशुभसत्त्वः समभवत्, सुवंशच्छायाढयः स्फुटमुदयनामा नग इव ॥१॥ तत्रोंदियाय तमसामवसायहेतुनिस्तारका तिभरो भुवनप्रकाशः । श्रीसर्वदेव इति साधुपतिनमस्यपादो नवार्क इव सन्नतमीनकेतुः ।।२।। ततश्च श्रीयशोभद्रनेमिचन्द्रादयोऽभवन् । अष्टावाशागजाकाराः सूरयस्तुङ्गचेष्टिताः ॥३॥ अजनि विनयचन्द्राध्यापको ध्यानयोगाद, विधुतविविधबाधाधायिध्यान्ध्यप्रधानः । मुनिगुणमणिवाद्धिः शुद्ध शिष्योपलब्धिः, सततसमयचर्यावजितार्याशयश्च ॥४॥ प्रायस्तत्सर्वसन्तानभक्तिमान्मुनिनायकः । अभूत् श्रीमुनिचन्द्रास्यस्तेनैषा विवृतिः कृता ॥५।। प्रकृता श्रीनागपुरे समथिताऽणहिल्लपाटके नगरे । अब्धिमुनिरुद्रसंख्ये (१९७४) वहमाने विक्रमे वर्षे ॥६॥ दृष्ट्वा शक्त्या सुनिपुणतथारूपबोधादृते वा, यच्चाभागाभवनवशती हीनमात्राधिकं वा । किञ्चित् कस्मिश्चिदपि च पदे दृब्धमुत्तार्य धीरस्तन्मे धर्म घटयितुमनाः शोधयेच्छास्त्रमेतत् ॥७॥ ॥८५३ - -

Loading...

Page Navigation
1 ... 445 446 447 448