Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 445
________________ 11८५१॥ लेशोद्देशेन लेशतः सामान्यभणनरूपेण एतानि उपदेशपदानि मया समाख्यातानि समयात् सिद्धान्तादुद्धृत्य पृथकृत्य । किमर्थमित्याह--मन्दमतिविबोधनार्थं मन्दा संशयानध्यवसायविपर्यासविह्वला मतिरर्थावबोधशक्तिर्येषां ते तथा तेषां विबोधनार्थमिति ॥१०३८॥ सिद्धस्तावदयं ग्रन्थः परं केन रचित इत्यस्यां जिज्ञासायां ग्रन्थकार एव कृतज्ञतागर्भा स्वनामाङ्कामिमां गाथामाह;-- जाइणिमयहरियाए रइता एते उ धम्मपुत्तेण । हरिभद्दायरिएण भवविरहं इच्छमाणेण ॥१०३९॥ * -* - * -* -* -* समाप्तोऽयमुपदेश पदग्रन्थः * -* -* -* -*---* ___याकिनीमहत्तराया याकिनीनामिकायाः श्रुतशीलजलधिवेलायाः प्रवत्तिन्याः, रचितानि दृब्धान्येतानि त्वेतानि पुनरुपदेशपदानि, धर्मपुत्रेण धर्म प्रतीत्य नन्दनेन तदन्तरंगधर्मशरीरनिष्पादकत्वात् तस्याः । केनेत्याह--हरिभद्राचार्येण -यः किल श्रीचित्रकूटाचलचूलानिवासी प्रथमपर्याय एव स्फुटपठिताष्टव्याकरणः सर्वदर्शनानुयायितर्ककर्कशमतिरत एव मतिमतामग्रगण्यः प्रतिज्ञातपरपठित ग्रन्थानवबोधे तच्छिष्यभावः, आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराश्रयसमीपगमनोपलब्ध 'चक्किदुगं हरिपणगं'--इत्यादिगाथासूत्रः, निजनिपुणोहापोहयोगेऽपि कथमपि स्वयमनुपलब्धत ।।८५१॥

Loading...

Page Navigation
1 ... 443 444 445 446 447 448