Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 411
________________ ।।८१७।। पचिन्तायां तु यथाम्रादीनां रसवीर्यविपाकभेदान्नानारूपता, तथा परस्परभिन्नपर्यायभाक्षु जंतुषु भव्यत्वस्यापीति ।।१००९।। अथ स्याद्वक्तव्यं यद्यपि स्वतो भव्यत्वमेकरूपं, तथापि स्वकार्यनिष्पादने ऽनियतरूपम् , अतः कार्यभेदेऽपि न तद्वैचित्र्यं स्वरूपेणकत्वादित्याशंक्याह;-- अणिययसहावयावि हु ण तस्सहावत्तमंतरेणत्ति । ता एवमणेगंतो सम्मति कयं पसंगणं ॥१०१०॥ ___ अनियतस्वभावतापि कार्यजननं प्रत्यनियमलक्षणा, किं पुनरस्मदभ्युपगतं तद्वैचित्र्यमित्यपिहुशब्दार्थः, न नैव तत्स्वभावत्वं भव्यत्वस्य चित्रस्वभावतामन्तरेण । इति प्राग्वत् । उपसंहरन्नाह-तत् तस्मादेवमुक्तन्यायेनानेकान्तो नानारूपता भव्यत्वस्य सम्यग् यथावत् । इति कृतं प्रसंगेन विस्तरभणनेन ॥१०१०।। आह-यदि भव्यत्वं चित्ररूपं तदाक्षिप्तश्च कालभेदेन भव्यानां बीजाधानादिगुणलाभः, तदा न यत्नः सम्यक्त्वाद्याराधनायामुपपन्नः स्यात्, तदशेनैवाप्रार्थिताऽप्यभिलषितसिद्धिः सम्पत्स्यते, इत्याशंक्याह;एवंपि ठिए तत्ते एयं अहिगिच्च एत्थ धीराणं । जुत्तं विसुद्धजोगाराहणमिह सव्वजत्तेण ॥१०११।। एवमपि स्थिते तत्त्वे भव्यत्वचित्रतालक्षणे एतत् तत्त्वमधिकृत्याश्रित्यात्र जिनप्रवचने धीराणां बुद्धिमतां युक्तं विशु- द्धयोगाराधनं निरतिचारसम्यक्त्वाद्याचारपरिपालनमिह जगति सर्वयत्नेन समस्तादरेण । न हि पुरुषकारमन्तरेण तथाभव्यत्वोपनीतान्यपि कार्याणि निष्पद्यन्ते, "काला सहाव नियई" इत्यादिवचनप्रमाण्येन शेषपुरुषकारादिकारणकलापसव्यपेक्षस्यैव तथाभव्यत्वलक्षणस्य स्वभावस्य स्वकार्यकारित्वोपपत्तेः ॥१०११।। तत्र च;-. ॥८१७।।

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448