________________
।।८१७।।
पचिन्तायां तु यथाम्रादीनां रसवीर्यविपाकभेदान्नानारूपता, तथा परस्परभिन्नपर्यायभाक्षु जंतुषु भव्यत्वस्यापीति ।।१००९।। अथ स्याद्वक्तव्यं यद्यपि स्वतो भव्यत्वमेकरूपं, तथापि स्वकार्यनिष्पादने ऽनियतरूपम् , अतः कार्यभेदेऽपि न तद्वैचित्र्यं स्वरूपेणकत्वादित्याशंक्याह;-- अणिययसहावयावि हु ण तस्सहावत्तमंतरेणत्ति । ता एवमणेगंतो सम्मति कयं पसंगणं ॥१०१०॥ ___ अनियतस्वभावतापि कार्यजननं प्रत्यनियमलक्षणा, किं पुनरस्मदभ्युपगतं तद्वैचित्र्यमित्यपिहुशब्दार्थः, न नैव तत्स्वभावत्वं भव्यत्वस्य चित्रस्वभावतामन्तरेण । इति प्राग्वत् । उपसंहरन्नाह-तत् तस्मादेवमुक्तन्यायेनानेकान्तो नानारूपता भव्यत्वस्य सम्यग् यथावत् । इति कृतं प्रसंगेन विस्तरभणनेन ॥१०१०।। आह-यदि भव्यत्वं चित्ररूपं तदाक्षिप्तश्च कालभेदेन भव्यानां बीजाधानादिगुणलाभः, तदा न यत्नः सम्यक्त्वाद्याराधनायामुपपन्नः स्यात्, तदशेनैवाप्रार्थिताऽप्यभिलषितसिद्धिः सम्पत्स्यते, इत्याशंक्याह;एवंपि ठिए तत्ते एयं अहिगिच्च एत्थ धीराणं । जुत्तं विसुद्धजोगाराहणमिह सव्वजत्तेण ॥१०११।।
एवमपि स्थिते तत्त्वे भव्यत्वचित्रतालक्षणे एतत् तत्त्वमधिकृत्याश्रित्यात्र जिनप्रवचने धीराणां बुद्धिमतां युक्तं विशु- द्धयोगाराधनं निरतिचारसम्यक्त्वाद्याचारपरिपालनमिह जगति सर्वयत्नेन समस्तादरेण । न हि पुरुषकारमन्तरेण तथाभव्यत्वोपनीतान्यपि कार्याणि निष्पद्यन्ते, "काला सहाव नियई" इत्यादिवचनप्रमाण्येन शेषपुरुषकारादिकारणकलापसव्यपेक्षस्यैव तथाभव्यत्वलक्षणस्य स्वभावस्य स्वकार्यकारित्वोपपत्तेः ॥१०११।। तत्र च;-.
॥८१७।।