________________
उपदेशप महाग्रंथ:
तथाभव्यत्वलक्षणम्
॥८१६॥
एषा न्यायमुद्रा न लङ्घनीया मतिमद्भिः। कुतो. यतो मा भवेत् मा भूयात् एतदुल्लंघने सम्यक्प्रत्ययविनाशःयथावस्थित वस्तु निर्णय विप्ल्वः । अपिच, निभालयितव्या सम्यग् निरीक्षणीया । कुत इत्याह । तथा-अनिभालने अन्यदोषप्रसङ्गात् सम्यक्प्रत्ययविनाशापेक्षयाऽन्यस्य दोषान्तरस्य प्राप्तेः ॥१००७।। एतमेव दर्शयति;-- जइ सव्वहा अजोग्गेवि चित्तया हंदि वणियसरूवा । पावइ य तस्सहावत्तविसेसा णणु अभव्वस्स ॥१००८।।
यदि सर्वथा सर्वेरेव प्रकारैरयोग्येऽप्येकस्वभावतया तच्चित्रपर्यायाणां चित्रता देशकाकादिभेदेन निर्वाणगमनस्य, हंदीति पूर्ववत्, वणितस्वरूपा । यदि हि भव्यता एकाकारा सती चित्रतया निर्वाणगमनस्य हेतुभावं प्रतिपद्यते तदा प्राप्नोति च प्राप्नोत्येव तत्स्वभावत्वाविशेषाद्--अचित्रकजीवस्वरूपस्वभावत्वाविशेषात्, ननु निश्चितमभव्यस्य निर्वाणगमनायोग्यस्य जन्तोः । अयमभिप्रायः--ऋषभादेनिर्वाणकाले यः स्वभाव: स चेन्महावीरस्यापि, तहि द्वयोरपि निर्वाणगमनकालैक्यं स्यात्, भव्यत्वभेदस्याभावात् । न चैवमभ्युपगम्यते । तस्मात् तत्कालायोग्यस्यैव ऋषभादेनिर्वाणमित्यायातं, तथा च सत्यभव्यस्यापि निर्वाणं स्यात्, तत्कालायोग्यत्वस्याविशेषात् ।।१००८॥ अह कहवि तन्विसेसो इच्छिज्जइ णियमओ तदक्खेवा । इच्छियसिद्धी सव्वे चित्तयाए अणेगातो ॥१००९।। ___ अथ कथमपि चित्रपर्यायप्राप्त्यन्यथानुपपत्तिलक्षणेन प्रकारेण तद्विशेष ऋषभादीनां भव्यत्वविशेष इष्यते। तदा निय. मतोऽवश्यंभावेन तदाक्षेपात् प्रतिविशिष्टभव्यत्वेनाक्षेपणादिष्टसिद्धिरभिलषिततीर्थकरादिपर्यायनिष्पत्तिः । तथा, एवं च भव्यत्वस्य चित्रतायामनेकान्तः । यथा भव्यत्वं तावत् सामान्येनैकरूपमेव, आम्रानिंबकदम्बादीनामिव वृक्षत्वम् । विशे-.
।।८१६॥