________________
॥८१५॥
एत्थ य जो जह सिद्धो संसरिउं तस्स संतियं चित्तं । किं तस्स भावमह णो भव्वत्तं वायमुद्देसा ॥१००५॥
अत्र च तथाभव्यत्वप्रतिष्ठायां यो जौवा यथा तीर्थकरादिपर्यायप्राप्त्या सिद्धो निद्भुतकर्मा जात: संसृत्यानर्वापारे संसाराकपारे पर्यटय तस्य सत्कं चित्रं भव्यत्वमापन्नं तावत्, अन्यथा चित्रसंसरणाभावात् । एवं च पृच्छयसे त्वं, किं तत्स्वभावं चित्रस्वभावं, अथ ना चित्रस्वभावम् । तथाभ्युपगमे न भव्यत्वं सिद्धिगमनयोग्यत्वं वर्त्तते, वादमुद्रा वादमर्यादा एषानन्तरोक्ता कृतप्रयत्नेनापि परेणोल्लंघयितुमशक्या । इदमुक्तं भवति-येऽमी ऋषभादयो भव्यास्तत्तन्नरनारकादिपर्यायपरम्परानुभवनेन नियतक्षेत्रकालावस्थाभाजः सिद्धास्तेषां भव्यत्वं चित्ररूपमचित्ररूपं वा स्यात् ? ॥१००५।।
कि चातः-- जइ तस्सहावमेयं सिद्धं सव्वं जहाइयं चेव । अह णो ण तहासिद्धी पावइ तस्सा जहण्णस्स ॥१००६॥
यदि स परस्परभिन्नपर्यायप्राप्तिहेतुः स्वभावो यस्य तत् तथा एतद्भव्यत्वं तदा सिद्ध सर्व, चैवशब्दस्य वक्ष्यमाणस्येहाभिसम्बन्धात्, समस्तमेव यथोदितं पुरुषकारवैचित्र्यादिलक्षणं वस्तु । अथ द्वितीयविकल्पशुद्धयर्थमाह-अथ ना | तथास्वभावं अपरप्राणिप्राप्यपर्यायवैलक्षण्यहेतुस्वलक्षणं; एवं सति न नैव तथा ऋषभादिपर्यायप्रापणेन सिद्धिनिर्वतिः प्राप्नोति । तस्य ऋषभादेर्जीवस्य तदानीं यथाऽन्यस्य महावीरादेः । को हि नाम विशेषहेतुर्यत् तुल्येऽपि भव्यत्वे परमेतेनैकस्यकत्र काले सिद्धिर्न पुनद्वितीयस्यापि ? तुल्यस्वभावाक्षिप्तत्वेन युगपदेव सिद्धिसंभवः स्यात् ।।१००६॥ एसा ण लंघणीया मा हाज्जा सम्मपञ्चविणासा। अविय णिहालेयव्वा तहष्णदोसप्पसंगाओ ।।१००७।।
॥८१५॥