Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 410
________________ उपदेशप महाग्रंथ: तथाभव्यत्वलक्षणम् ॥८१६॥ एषा न्यायमुद्रा न लङ्घनीया मतिमद्भिः। कुतो. यतो मा भवेत् मा भूयात् एतदुल्लंघने सम्यक्प्रत्ययविनाशःयथावस्थित वस्तु निर्णय विप्ल्वः । अपिच, निभालयितव्या सम्यग् निरीक्षणीया । कुत इत्याह । तथा-अनिभालने अन्यदोषप्रसङ्गात् सम्यक्प्रत्ययविनाशापेक्षयाऽन्यस्य दोषान्तरस्य प्राप्तेः ॥१००७।। एतमेव दर्शयति;-- जइ सव्वहा अजोग्गेवि चित्तया हंदि वणियसरूवा । पावइ य तस्सहावत्तविसेसा णणु अभव्वस्स ॥१००८।। यदि सर्वथा सर्वेरेव प्रकारैरयोग्येऽप्येकस्वभावतया तच्चित्रपर्यायाणां चित्रता देशकाकादिभेदेन निर्वाणगमनस्य, हंदीति पूर्ववत्, वणितस्वरूपा । यदि हि भव्यता एकाकारा सती चित्रतया निर्वाणगमनस्य हेतुभावं प्रतिपद्यते तदा प्राप्नोति च प्राप्नोत्येव तत्स्वभावत्वाविशेषाद्--अचित्रकजीवस्वरूपस्वभावत्वाविशेषात्, ननु निश्चितमभव्यस्य निर्वाणगमनायोग्यस्य जन्तोः । अयमभिप्रायः--ऋषभादेनिर्वाणकाले यः स्वभाव: स चेन्महावीरस्यापि, तहि द्वयोरपि निर्वाणगमनकालैक्यं स्यात्, भव्यत्वभेदस्याभावात् । न चैवमभ्युपगम्यते । तस्मात् तत्कालायोग्यस्यैव ऋषभादेनिर्वाणमित्यायातं, तथा च सत्यभव्यस्यापि निर्वाणं स्यात्, तत्कालायोग्यत्वस्याविशेषात् ।।१००८॥ अह कहवि तन्विसेसो इच्छिज्जइ णियमओ तदक्खेवा । इच्छियसिद्धी सव्वे चित्तयाए अणेगातो ॥१००९।। ___ अथ कथमपि चित्रपर्यायप्राप्त्यन्यथानुपपत्तिलक्षणेन प्रकारेण तद्विशेष ऋषभादीनां भव्यत्वविशेष इष्यते। तदा निय. मतोऽवश्यंभावेन तदाक्षेपात् प्रतिविशिष्टभव्यत्वेनाक्षेपणादिष्टसिद्धिरभिलषिततीर्थकरादिपर्यायनिष्पत्तिः । तथा, एवं च भव्यत्वस्य चित्रतायामनेकान्तः । यथा भव्यत्वं तावत् सामान्येनैकरूपमेव, आम्रानिंबकदम्बादीनामिव वृक्षत्वम् । विशे-. ।।८१६॥

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448