Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 408
________________ कवलस्व उपदेश पदाः भव्यत्वेन तथाचित्ररूपतया आक्षेपात् समाकर्षणात् पुरुषकारस्य । स पुरुषकारः अन्यथा भव्यत्वाक्षेपमन्तरेणाकारणो महानथ निर्हेतुको न नैव भवेत्, नित्यं सत्त्वादिप्रसगात् ॥१००२।। एवं च सति यदन्यदपि सिद्धं तदाह; भाववादः उवएससफलयावि य एवं इहरा न जुज्जति ततेोवि । तह तेण अणक्खित्तो सहाववादो बला एति ॥१००३।। उपदेशसफलतापि च उपदेशस्यापुनर्बन्धकादिधर्माधिकारिसमुचितस्य तत्तच्छास्त्रनिरूपितस्य सफलता तत्तदनाभोगनिवर्त्तनरूपा, किं पुनः प्रागुक्तपुरुषकाराद्याक्षेप इत्यपिशब्दार्थः, एवं तथाभव्यत्वस्यैवापेक्ष्यत्वे घटते, (नान्यथा)। तकोऽप्युपदेशोऽपि किं पुनः पुरुषकार इत्यपिशब्दार्थः, तथेति समुच्चये, चित्रभव्यत्वानभ्युपगमे सति तेन च तथाभव्यत्वेनानाक्षिप्तोऽनालीढ एकाकार इत्यर्थः, स्वभाववादा वक्ष्यमाणरूपा बलाद्य क्तिसामर्थ्यादेति प्रसज्यते, तथाभव्यत्वरूपस्तु स्वभाववादो न बाधाकरः ॥१००३।। केवलस्वभाववादमेव दर्शयति; को कुवलयाण गंधं करेइ महुरत्तणं च उच्छृणं । वहरत्थीण य लीलं विणयं च कुलप्पसूयाणं? ॥१००४॥ शिश कः कुवलयानां जलजविशेषाणां गन्धं सौरभं करोति, मधुरत्वं च माधुर्यलक्षणमिक्षूणां, बरहस्तिनां च जात्यस्तम्बेर| माणां लीलां गमनसौन्दर्यरूपां, विनयं च सर्वार्थेषचितप्रवृत्तिरूपं . कुलप्रसूतानामिक्ष्वाक्वादिनिर्मलकुलसमुद्भवानां पुरु- In८१४|| षाणाम् ? किं तु स्वभाव एव नान्यः कालादिः । अन्यत्राप्युक्तम्-"कः कण्टकानां प्रकरोति तक्ष्ण्यं, विचित्रभावं मृग४ पक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ? ॥१॥" ॥१०॥ अथ प्रस्तुतं तथाभव्यत्वमेवाश्रित्याह;--

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448