Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 407
________________ ||८१३॥ समुच्चये । कालादीनां कालनियतिपूर्वकृतकर्मणां समग्रान्तररूपाणामाक्षेपकस्वभावं संनिहितताकारकस्वभावम् ॥९९९॥ विपक्षे बाधकमाह;इहराऽसमंजसत्तं तस्स तहसभावयाए तहचित्तो। कालाइजोगओ णण तस्स विवागो कहं हाइ ॥१०००। _____ इतरथा वैचित्र्याभावेऽसमंजसत्वमसांगत्यं प्राप्नोति। कुतो, यतस्तस्य भव्यत्वस्य तथास्वभावतायामेकस्वभावत्वलक्षणायां परेणाभ्युपगम्यमानायां तथाचित्ररतत्प्रकारवैचित्र्यवान् कालादियोगतः कालदेशावस्थाभेदता ननु निश्वितं तस्य जीवस्य विपाकः फललाभरूपः कथं भवति ? न कथञ्चिदित्यर्थः ।।१०००। । एसो उ तंतसिद्धो एवं घडएत्ति णियमओ एवं । पडिवज्जेयव्वं खलु सुहमेणं तकजोगेणं ॥१००१।। __ एष तु कालादियोगतश्चित्रो विपाको जीवस्य तन्त्रसिद्धः सिद्धान्तनिरूपितः, यथा 'तित्थयरसिद्धा अतित्थयरसिद्धा' इत्यादि, एवं भव्यत्वविचित्रतायां घटते, इतिर्वाक्यालंकारे, नियमतो नियमेन । एवमुक्तलक्षणं वस्तु प्रतिपत्तव्यं, खलुरवधारणे, सूक्ष्मेण निपुणेन तर्कयोगेन ऋजुसूत्रादिपर्यायनयपर्यालोचेन। ऋजुसूत्रादयो हि पर्यायनयाः कारणभेदपूर्वकमेव कार्यभेदं मन्यन्ते, अन्यथा एकस्मादेव कारणात् सकलत्रैलोक्यकार्योत्पत्तिप्रसंगेन व्यर्थमेव कारणान्तराणां सकलजनप्रसिद्धानां परिकल्पनं स्यादिति ।।१००१।। एवं विय विन्नेओ सफलो नाएण पुरिसगारोवि । तेण तहक्खेवाओ स अन्नहाऽकारणो ण भवे ॥१००२॥ एवमेव तथाभव्यत्वचित्रतायामेव विज्ञेयः सफलो न्यायेन पुरुषकारोऽपि पुरुषव्यापाररूपः । अत्र हेतुः--तेन तथा ॥८१३॥

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448