SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ||८१३॥ समुच्चये । कालादीनां कालनियतिपूर्वकृतकर्मणां समग्रान्तररूपाणामाक्षेपकस्वभावं संनिहितताकारकस्वभावम् ॥९९९॥ विपक्षे बाधकमाह;इहराऽसमंजसत्तं तस्स तहसभावयाए तहचित्तो। कालाइजोगओ णण तस्स विवागो कहं हाइ ॥१०००। _____ इतरथा वैचित्र्याभावेऽसमंजसत्वमसांगत्यं प्राप्नोति। कुतो, यतस्तस्य भव्यत्वस्य तथास्वभावतायामेकस्वभावत्वलक्षणायां परेणाभ्युपगम्यमानायां तथाचित्ररतत्प्रकारवैचित्र्यवान् कालादियोगतः कालदेशावस्थाभेदता ननु निश्वितं तस्य जीवस्य विपाकः फललाभरूपः कथं भवति ? न कथञ्चिदित्यर्थः ।।१०००। । एसो उ तंतसिद्धो एवं घडएत्ति णियमओ एवं । पडिवज्जेयव्वं खलु सुहमेणं तकजोगेणं ॥१००१।। __ एष तु कालादियोगतश्चित्रो विपाको जीवस्य तन्त्रसिद्धः सिद्धान्तनिरूपितः, यथा 'तित्थयरसिद्धा अतित्थयरसिद्धा' इत्यादि, एवं भव्यत्वविचित्रतायां घटते, इतिर्वाक्यालंकारे, नियमतो नियमेन । एवमुक्तलक्षणं वस्तु प्रतिपत्तव्यं, खलुरवधारणे, सूक्ष्मेण निपुणेन तर्कयोगेन ऋजुसूत्रादिपर्यायनयपर्यालोचेन। ऋजुसूत्रादयो हि पर्यायनयाः कारणभेदपूर्वकमेव कार्यभेदं मन्यन्ते, अन्यथा एकस्मादेव कारणात् सकलत्रैलोक्यकार्योत्पत्तिप्रसंगेन व्यर्थमेव कारणान्तराणां सकलजनप्रसिद्धानां परिकल्पनं स्यादिति ।।१००१।। एवं विय विन्नेओ सफलो नाएण पुरिसगारोवि । तेण तहक्खेवाओ स अन्नहाऽकारणो ण भवे ॥१००२॥ एवमेव तथाभव्यत्वचित्रतायामेव विज्ञेयः सफलो न्यायेन पुरुषकारोऽपि पुरुषव्यापाररूपः । अत्र हेतुः--तेन तथा ॥८१३॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy