________________
तथाभव्यत्वव्याख्या
तेषु जीवेषु भवति । अपुनर्बन्धकादयश्च सम्यगनुष्ठानवन्त एव ।।९९६।। महाग्रंथः र एयं तु महाभम्वत्ताए संजोगओ णिओगेणं । तह सामग्गीसज्झ लेसेण जिंदसियं चेव ॥९९७॥
एतत्त्वनुष्ठानं तथाभव्यत्वादिसंयोगता नियोगतो नियमेन भवति । तत्र तथाभव्यत्वं वक्ष्यमाणमेव, आदिशब्दात् ॥८१२।।
कालनियतिपूर्वकृत पुरुषकारग्रहः । अत एवाह-तथा तत्प्रकारा या सामग्री समग्रकालादिकारणसंयोगलक्षणा तत्साभ्यम्, एकस्य कस्यचित् कारणत्वायोगात् । एतच लेशन संक्षेपेण निदर्शितमेव प्रकटितमेव ।।९९७।।
यथा तनिदर्शनं तथैव स्फुटयति;दइवपुरिसाहिगारे अत्थावत्तीए गरुयणयणिउणं । परिभावेयध्वं खलु बुद्धिमया णवरि जत्तेण ।।९९८।।
देवपुरुषाधिकारे "एत्तो य दोवि तुल्ला विन्नेया दइवपुरिसगारावि । इहरा उ निष्फलत्तं पावइ नियमेण एगस्स" इत्यादि प्रागुक्तलक्षणेऽर्थापत्त्या सर्वकार्याणां तदधीनत्वप्रतिपादनलक्षणया गुरुकनयनिपुणं प्रधानयुक्तिसन्दर्भितम् परिभावयितव्यम्, खलुक्यालंकारे, बुद्धिमता पुरुषेण, नवरं केवलं यत्नेनादरेणेति ।।९९८।। अथ तथाभव्यत्वमेव व्याचष्टे ;तहभव्वत्तं चित्तं अकम्मजं आयतत्तमिह णेयं । फलभेया तह कालाइयाणमक्खेवगसहावं ॥९९९।।
तथाभव्यत्वं चित्रं नानारूपं, भव्यत्वमेवेति गम्यते, अकर्मजमकर्मनिर्मितमात्मतत्त्वं साकारानाकारोपयोगवजीवस्वभावभूतमिह विचारे ज्ञेयम् । अत्र हेतुः-फलभेदात्तीर्थकरगणधरादिरूपतया भव्यत्वफलस्य वैचित्र्योपलम्भात् । तथेति
।।८१२॥