________________
नपपत्नीनिदर्शनम्
उपदेशपदाकयमेत्थ पसंगणं इमिणा विहिणा निओगओ गाणं । आणाजोगावि इह एसोच्चिय हाइ णायच्चो ।1८८६।। महाग्रंथः
। कृतं पर्याप्तमत्र व्याख्याविधिकथने प्रसंगेन विस्तारेण, अनेन मण्डलीप्रमार्जनादिना विधिना नियोगतो नियमेन ज्ञानमागमश्रवणप्रवृत्तस्य श्रोतुः सम्पद्यते । आज्ञायोगाऽपि सम्यगज्ञानसाध्योऽत्र व्याख्याने एष एवोक्ताचारपरिपालनारूपो
भवति ज्ञातव्यः ॥८८६॥ ज्ञानवांश्च यत्करोति तदाह७४६॥ xणाणि य णिच्छएणं पसाहई इच्छियं इहं कजं । बहुपडिबंधजुयपि हु तहा तहा तयविरोहेण ।।८८७ ।
ज्ञानी चात्र विधिगृहीतशास्त्रार्थावबोधः पुनः पुमान्निश्चयेन प्रसाधयति निष्पादयतीप्सितमाप्तुमिष्टमिह कार्य धर्मार्थाद्याराद्यनरपं बहुप्रतिबन्धयुतमप्यनेकविघ्नप्रतिस्खलितमपि, तथा तथा तत्तहव्यक्षेत्रादिस्वरूपानुवर्तनापायेन, तदविरोधेन तस्येप्सितकार्यस्य योऽविरोधो घटना कार्यान्तरैरीप्सितैरेव तेनोपलक्षितः सन् । न हि धर्मान्तराणि बाधमानो धर्मो धर्मरपता प्रतिपद्यते । यथोक्तम्-"धर्म यो बाधते धर्मो न स धर्मः सतां मतः । अविरोधेन यो धर्मः स धर्म इति कोतितः ॥१॥" तथा ।"वेदवृद्धानुपचरेच्छिक्षितागमतः स्वयम् । अहेरिव हि धर्मस्य सूक्ष्मा दुरनुगा गतिः॥१॥" ।।८८७॥ मग्गे य जायइ तहा केई भावाणुवत्तणणएण । बोजाहाणं पायं तदुचियाणं कुणइ एसो ॥८८८।।
मार्गे च सम्यग्दर्शनादिके निर्वाणपथे योजयति, तथेति समुच्चये, कांश्चिद्भव्यसत्त्वान् भावानुवर्तननयेन मदुः खरो मध्यमो वा यः शिक्षणीयस्य प्राणिनो भावो मनःपरिणामस्तस्यानुवर्तनमेव नयो नीतिः सामलक्षणभावेनेयमेव च प्रधाना नीतिः कार्यसिद्धी । यथोक्तम्-"यद्यप्युपायाश्चत्वारः प्रथिताः साध्यसाधने । संज्ञामात्र फलं तेषां सिद्धिः साम्नि प्रति
॥७४६॥
E