________________
।। ७४५ ।।
च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्यानं तस्य षड्विधम् ||१| " इति व्याख्याक्रमः । अत्र च पदार्थो लोकोत्तरपदार्थतुल्य एव, अविशिष्टार्थ पदार्थं गम्यत्वात् । चालना वाक्यार्थ:, प्रत्यवस्थानं तु महावाक्यार्थः । ऐदम्पर्यं चात्र व्याख्यालक्षणे साक्षादनुक्तमपि सामर्थ्यदुक्तमेव द्रष्टव्यं संहितादिव्याख्यानांगैर्व्याख्यार्थस्यैदम्पर्यविषयत्वात् ।।८८४।। अथ लोकोत्तरदृष्टामाद्वारेण लौकिकपदार्थ स्वर्पमभिधत्ते ;-.
वक्खाइसद्दओ जं अविसिट्ठा चेव होइ बुद्धित्ति । उत्तर धम्मावेक्खा जहेव हिंसा इसाओ ||८८५ ।।
वृक्षादिशब्दतो वृक्षघटपटादिशब्देभ्येा यद् यस्मादविशिष्टा चैवात्र निम्बादिविशेषैरनालीदैव भवति बुद्धिरिति प्राग्वत् । कीदृशीत्याह- उत्तरधम्र्म्मापेक्षा वृक्षस्यात्तरधर्मा मूलकन्दस्कन्धादयेा जम्बूनिम्बादयश्व घटादीनां तु ताम्ररजतसौवर्णादयः, तानपेक्षते आकाङ्क्षते या सा तथा । यथैव हिंसादिशब्दाद् “हिंस्याद् न सर्वभूतानि" इत्यादिलक्षणात् । तत इदमर्यादापन्न - यथा हिंस्यान्न सर्वभूतानीत्यादयः शब्दाः पदार्थवाक्यार्थादिप्रकारेण निराकाङ्क्षस्वार्थप्रतिपादका भवन्ति तथा वृक्षादयोऽपि शब्दाः पदार्थवाक्यार्थ महावाक्यार्थेदम्पर्यविषयभावमापन्नाः श्रोतृप्रतीतिमविकलामाराधयन्तीति । तथाहि - दूरे शाखादिमन्तं पदार्थमुपलभ्य कश्चित् कश्चित् प्रति ब्रूयात् 'अग्रे वृक्षस्तिष्ठति' इति । तस्य च श्रोतुः श्रत एव शब्दार्थः पदार्थः, अयं च वृक्षो भवन् किमाम्रो निम्बो वा स्यादिति चालनारूपो वाक्यार्थः, ततः प्रतिविशिष्टाकारावलेाकनेनाम्र एव निम्बादिर्वायमिति प्रतिनियतः प्रत्यया महावाक्यार्थः इत्थमेव निर्णयपुरःसरमाम्राद्यथिना प्रवर्तितव्यमित्यैदम्पर्यमति ॥ ८८५ ।। उपसंहरन्नाह ;
।। ७४५ ।।