Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

View full book text
Previous | Next

Page 426
________________ ૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અનિથિભાસ્કર | किश्च कथितो हेतुः पताकाकृत्कर्तृकोपन्यासकर्मतान्नैवार्हति ज्यौतिषोपजीविटिप्पणप्रवेदितस्याटमीक्षयदिने सप्तम्या औदयिकीत्वस्याष्टम्याश्चानौदयिकीत्वस्य "क्षये पूर्वा तिथिः कार्या" इति विधिबलेन पताकाया अष्टमे पृष्ठे तेन स्वयमेव वैपरीत्येन वर्णयिष्यमाणत्वात् । पताकान्त पतिताया: “क्षये पूर्वा तिथिः कार्या" इति वचनव्याख्यायाः परीक्षणम् पताकायाः सप्तमे पृष्ठे “ तथापि जैनसम्प्रदाय” इत्यारभ्य “वचनमिदं प्रवर्तते” इत्यन्तेन वाक्यजातेनोक्तवचसोऽवतारणां प्रदर्य तदीयं व्याख्यानद्वयं पताकाकृता स्वेष्टतया निर्दिष्टम् । तत्र प्रथमन्तावदेतत्-" अत्र तिथिरित्युद्देश्यसमर्पकम् , पूर्वेति पदं विधेयसमर्पकम् , तिथिरिति सामान्यश्रतमपि तिथिपदं प्रकरणात पर्वतिथिपरम , तिथिसामान्यरूपायामपर्वतिथौ अवश्यकर्तव्यस्य कस चिदनिरूपणात् अवश्यकर्तव्यविशिष्टा पर्वतिथिरेवात्रोद्देश्यतां भजते, अतस्तस्याः क्षयासम्भवात् तत्पूर्वस्या अपर्वतिथेरेव क्षयः फलति । पर्वतिथेस्तु अनेन वचनेनौदयिकीत्वं विधीयते । ......... .........अतश्चायमर्थः सिद्धो भवति, पर्वतिथेः पञ्चाङ्गे क्षये दृष्टे सति तत्प्राक्तनापर्वतिथिनिष्ठमौदयिकीत्वं पर्वतिथौ भावयेदिति"। ___ अत्र वयमिदमाघोण्यामो यत् पताकाकृता निर्दिष्टा उक्तवचसोऽवतारणा नितरामसङ्गता, यतो हि तेन पूर्व “जैनसम्प्रदाये औदयिकी तिथिरेव सर्वकार्योपयोगिनी" इत्युक्तम् । तेन चौदयिकीनां पर्वतिथीनामेवाराधनायास्तदङ्गतायाः वा जैनशास्त्रादिष्टत्वं प्रतिभाति । एवञ्च याः पर्वतिथयः पञ्चाङ्गेनानौदयिक्यो निर्दिश्यन्ते तासामाराधनाया अकरणेऽपि शास्त्रादेशभङ्गभयाभावात् “कथङ्कारं तत्राराधना क्रियताम्" इत्याकाङ्क्षायाः पताकाकृद्दर्शिताया अनुत्थानपराहतत्वेन तत्पशमकतया तद्वचसः प्रवृत्तिरयौक्तिकी। . ____ अथ यदीदमुच्येत यत् समर्थनीयतया तत्स्वीकृते पक्षे पर्वतिथीनां वास्तविकस्य क्षयस्याभावात् सर्वासां पर्वतिथीनामौदयिकीत्वेन तासां सर्वासामेवाराधनीयता शास्त्रतः प्राप्नोति, परं पञ्चाङ्गेन तासु कस्याश्चित् क्षयनिर्देशे तस्याः प्रकारान्तरेणौदयिकीत्वस्य ज्ञातुमशक्यतया " कथं तदाराधना कार्या येन शास्त्रीयः सर्वपर्वतिथ्यादेशः पालितः स्यात्' इत्याकाङ्क्षायाः जन्म निष्प्रत्यूहमेवेति । तदप्यसङ्गतम् । "क्षये पूर्वा तिथिः कार्या” इत्येतद्वचोव्यतिरिक्तस्य पर्वतिथिक्षयाऽभाववेदिनोऽभावेन तत्प्रवृत्तेः पूर्व सर्वासां पर्वतिथीनामौदयिकीत्वं भवत्येवेत्यस्य ज्ञातुमशक्यतया औदयिकीनामेव तिथीनां सर्वकार्योपयोगित्वमिति जैनसिद्धान्ते जाग्रति सर्वपर्वतिथीनामाराधनादेशे शास्त्रतात्पर्यज्ञानोदयासम्भवेन तादृश्या आकाङ्क्षायाः प्रादुर्भूतेः प्रजापतिसहस्त्रेणापि कर्तुमशक्यत्वात् । व्याख्यानविषये चैतद् ब्रूमः___ अत्र तिथिपदस्योद्देश्यपरत्वम् पताकाकृत ईप्सितं न युक्तम् ? “यच्छब्दयोगः प्राथम्यम्" इत्यभियुक्तवचोऽनुसारेणोद्देश्यपरपदस्य प्राथमिकप्रयोगनियमस्य परित्याज्यताया अगति विनाऽनौचित्यात् । ___ “तिथिरिति सामान्यश्रुतमपि पदं प्रकरणात् पर्वतिथिपरम्" इतीदमपि पताकाकृद्वचनमयुक्तमेव, सामान्यवाचिनस्तिथिपदस्य पर्वतिथिमात्रे संकोचकाभावात् , विशेषतोऽनिर्देशेन प्रकरणस्य प्रकृतेऽस्तित्वशून्यतायाः दुर्बलतायाश्चाग्रे विस्तरेण वर्णयिष्यमाणत्वाच्च । ____ यच्चाटमे पृष्ठे पताकायाः “पूर्वानिष्ठं यदौदयिकीत्वं तदेवानेन विधीयते” इति, तदत्यन्तमसत् ? पूर्वानिष्ठस्य तस्य पूर्वस्यामेव सम्भवेनान्यस्यां तद्विधानासम्भवात् । पञ्चाङ्गेन पूर्वानिष्टतया निर्दिष्टं वस्तुतस्तूत्तरस्यामेव विद्यमानं यदौदयिकीत्वं तद्विधीयत इत्यर्थकतया तस्य वाक्यस्य समर्थनमपि न शक्यसम्भवम् ? उत्तरानिष्ठस्य तत्र विधिं विनापि सिद्धतया विधानानावश्यकत्वात् । न तत् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552