Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust
View full book text
________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્હત્તિયિભાસ્કર ]
२०. शान्तिनिकेतने भूतपूर्वसंस्कृताध्यापकानां " मानवभारती " इति नाम्न्याः सुप्रसिद्द्धाया अन्तरराष्ट्रियसांस्कृतिकशिक्षणसंस्थायाः प्रतिष्ठापकानां साहित्याचार्य - पण्डित - श्रीदुर्गाप्रसादपाण्डेय - पी. एच. डी., डी. लिटू महोदयानां “ सम्मतिः
""
तिथ्यादीनां प्रवेशादिकालप्रतिपादनं प्रामाणिकपञ्चाङ्गमात्राधिकारिकम् । तत्र धर्मशास्त्रस्य हस्तक्षेप नितरामनुचितः । यतो हि यो यस्य शास्त्रस्यासाधारणो विषयस्तत्र शास्त्रान्तरं प्रवर्तितुं नोत्सहत इति सर्वतन्त्रसिद्धान्तः । अतः “ क्षये पूर्वा तिथिः कार्या ” इत्याचार्यौमास्वातिप्रघोषस्यार्हतधर्मशास्त्रात्मनः पञ्चाङ्गप्रोक्ततिथिकालान्यथाकारिणी कस्यापि व्याख्या शास्त्रतत्त्वज्ञानां सम्मान - भाजनीभवितुन्नार्हतीति मन्निश्चयानुरूपं वाराणसीविद्वन्मतं सानन्दं समर्थयामीति —
मानवभारती - मसूरी, ५-१-५०
ह० दुर्गाप्रसादपाण्डेयः
२१. अयोध्यास्थ राजगोपाल - संस्कृत - पाठशालाप्रधानाध्यापकानां न्यायव्याकरणाचार्याणां संयुक्तप्रान्तीयसंस्कृताध्यापकसङ्घसभापतीनां पण्डितराज - श्रीरुद्रप्रसादावस्थिमहाभागानां " समुद्घोषः
काशी विद्वतजैर्यदिदमुच्यते यत् " तत्तत्सम्प्रदाये तिथ्यादिनिर्णयाय प्रमाणतयाऽभ्युपगतेन पञ्चाङ्गेन यस्यास्तिथेर्यः प्रवेशादिकालो निर्दिश्यते स न केनापि कथमति परिवर्तयितुं शक्य " इति । तदेव शास्त्रसिद्धान्ततया समुद्घोषयति
८-१-५०
ह० रुद्रप्रसादः अवस्थी
२२. “ गवर्नमेण्ट इ० कालेज, फैजाबाद " इत्येतस्मिन् शिक्षालये संस्कृतविभागस्य प्रधानाध्यापकानां व्याणाचार्य - श्रीनृसिंहनाथ त्रिपाठि महोदयानां " ' समुद्घोषः
“ सर्वतिथीनां प्रवेशादिकालविषये विशुद्धं पञ्चाङ्गमेव प्रमाणम् । तदुदितः कस्या अपि तिथे: कालो न किञ्चिदप्यन्यथाकर्तुं शक्यः । अतः क्षीणायाः पर्वतिथेः सूर्योदयकाले सम्बन्धकल्पनं वृद्धायाश्च पर्वतिथेः पूर्वदिनसम्बन्धलोपपर्यवसायिनो द्वितीयदिने नियमनस्य कल्पनमित्युभयमेव शास्त्रतत्वानवबोधविजृम्भणमिति “ अर्हत्तिथिभास्करे " काशीस्थविद्वद्भिः प्रकाशितं मतं प्रामाणिकत्वेनोद्घोषयति । ह० नृसिंहनाथत्रिपाठी
(C
७५
,,
७-१-५०
२३. एम० ए०, ( संस्कृत-हिन्दी - दर्शन ) एल. एल. बी. साहित्याचार्यविद्याभूषणप्रभृत्यनेकोपाधिविभूषितानां 'कालविन ताल्लुकेदार कालेज, लखनऊ " इति विद्यालये प्रधान संस्कृताध्यापकानां पं० श्री राजमङ्गलनाथत्रिपाठी महाशयानां “ अनुमतिः
95
" तिथीनां प्रवेशादौ विशुद्धं पञ्चाङ्गं विनाऽपवादेन प्रमाणमिति कस्या अपि तिथेस्तदुदितः समयो नेषन्मात्रमपि पुरः पचाद्वा नेतुं शक्यः " इत्येतदाधारेण " अर्हत्तिथिभास्करे " वाराणसेय पण्डितैः प्रतिष्ठापितमाचार्यश्रीरामचन्द्रसूरिमतं शास्त्र सिद्धान्ततया समनुमन्यते—
Jain Education International
८-१-५०
ह० राजमङ्गलनाथत्रिपाठी
२४. “ गवर्नमेण्ट इ० कालेज, झाँसी " इत्येतन्महाविद्यालये संस्कृतविभागाध्यक्षाणां काव्यतीर्थ - साहित्याचार्यपण्डितप्रवर-श्रीरघुवरप्रसाद शुक्ल महोदयानां " अनुमतिः "
66
क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा " इत्याचार्यौमास्वातिपद्यार्धेन क्षीणानां "वृद्धानाञ्च पर्वतिथीनामाराधनादिवसमात्रं निर्णीयते न तु तासां पञ्चाङ्गप्रोक्तः प्रवेशादिसमयः प्रति
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552