Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

Previous | Next

Page 479
________________ | [ જૈન દષ્ટિએ તિથિદિન અને પર્વરાધન-સંગ્રહવિભાગ विध्यते " इति मतं प्रकाशितम् “ अर्हत्तिथिभास्कर " इत्येतत्प्रबन्धे पण्डितैर्वाराणस्यास्सप्रमोद प्रामाणिकत्वेनानुमन्ये । ह० रघुवरप्रसाद शुक्ल २५. गोरखपुरनगरे बालमुकुन्दमहाविद्यालये संस्कृतविभागप्रधानाध्यापकानां साहित्यव्याकरणाचार्याणां श्रीमताम् मनीषिवर्याणाम् अवधेशनाथमिश्रमहाशयानां “समर्थनम्" "क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इति वचनं पर्वतिथीनां क्षयवृद्धी समनुमन्यमानं तासामाराधनादिवसं प्रदर्शयति, न तु तासां पञ्चाङ्गप्रोक्तं समयं पश्चात् पुरस्ताद्वा नयति" इति वाराणसेयविद्वज्जनैः " अर्हत्तिथिभास्करे " प्रतिपादितं शास्त्रीयमर्थं समर्थतिमाघ कृष्ण ५, सं० २००५ ह. अवधेशनाथमिश्रः २६. “ गवर्नमेण्ट ट्रेनिङ्ग कालेज, गोरखपुर” इति विद्यालये संस्कृतविभागाध्यापकानां व्याकरणाचार्यपण्डितश्रीरमापतिचतुर्वेदिमहाशयानां “ सम्मतिः" ___ "क्षये पूर्वा" इत्यादिक आचार्योंमास्वातिप्रघोषः क्षीणानां वृद्धानाच जैनपर्वतिथीनामाराधनादिनमात्रं प्रमापयति न तु तासां पश्चाङ्गसचित स्वाभाविकं समयमन्यथाकत पारयति" इति " अर्हत्तिथिभास्करे " प्रतिष्ठापितं श्रीरामचन्द्रसूरिपक्षं शास्त्रयुक्तिसम्मतं सम्मन्यते८-१-५० __ ह. रमापतिचतुर्वेदी ___ २७. लखनऊ धर्मसङघसंस्कृतमहाविद्यालये प्रधानाध्यापकानां साहित्यभूषणव्याकरणाचार्यादिपदभाजां पण्डितश्रीरामचरित्रपाण्डेय महानुभावानां “सम्मतिः” श्रीजैनसङ्घ श्रीमदुमास्वातिप्रघोषतया प्रसिद्धं “क्षये पूर्वा तिथिः कार्या" इत्यादिकं पद्य क्षीणवृद्धपर्वतिथीनामाराधनावासरं विनिश्चाययति न तु तासां प्रवेशादिकालं प्रकृत्य किञ्चित्प्रतिपादयति " इति काशीकोविदकीर्तितं शास्त्रसत्तर्कसंवलितं मतं समर्थयति ___ ह. रामचरित्रपाण्डेयः २८. “ रणधीर-कालेज, कपूरथला, पञ्जाब" इति शिक्षणालये संस्कृतविभागप्रधानाध्यक्षाणाम् अनेकसद्ग्रन्थरचनया पण्डितमण्डलीषु प्रतिष्ठापितप्रभावाणां व्याकरणाचार्याणां विद्वद्वरश्रीश्रीधरानन्दशास्त्रिघिल्डियालमहाशयानां " अनुमतिः " जैनसम्प्रदाये श्रीमदाचार्योमास्वातिपघोषतया प्रसिद्धिमध्यासीनं "क्षये पूर्वा तिथिः" इत्यादि पद्याधं क्षीणानां वृद्धानाञ्च पर्वतिथीनामाराधनादिनमात्रमावेदयति न तु तासान्निसर्गसङ्गतं पञ्चाङ्गविनिवेदितं प्रवेशादिकालमन्यथयति " मतमेतद् वाराणसेयविदुषाम् “अर्हत्तिथिभास्करतः" प्रपश्यन् परमां प्रीतिमुपयन् तस्य प्रामाणिकतां समुपोद्वलयति७-१-५० ह० श्रीधरानन्दघिल्डियालः २९. गोण्डामण्डलावयवबलरामपुरराजस्य प्रधानपण्डितानां तदीयविद्यालये संस्कृतविभागप्रधानाध्यापकानाम् अनन्यकवीनां साहित्यव्याकरणन्यायाचार्यप्रभृत्यनेकोपाधिभिर्मण्डितानां श्रीरामप्रकटमणित्रिपाठिमहोदयानां “समर्थनम्" ___“विशुद्धगणितोपजीविना पश्चाङ्गेन प्रोच्यमानस्तत्तिथिसमयो न केनापि साधनेनान्यथयितुं शक्य इति सूर्योदयकाले प्रवृत्तायाः कस्या अपि तिथेस्तत्र प्रवृत्तिमाननं दिनद्वये सूर्योदयं स्पृशन्त्याश्च ९-१-५० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552