Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

View full book text
Previous | Next

Page 482
________________ ૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અર્વતિથિભાસ્કર ] ७८ "श्रीजैनसङ्घ श्रीमदुमास्वातिरचिततया सुविख्यातं " क्षये पूर्वा तिथिः कार्या " इत्यादिवचनं पञ्चाङ्गस्य मामाण्यं मनागप्यसङ्कोचयदेव क्षीणवृद्धपर्वतिथीनामाराधनादिनव्यवस्थापयितृतया जैनानिन्द्यनिबन्धेषु निरुपितन्निभाल्यते" इत्यतः प्रस्तुतं मतं काशीविदुषां सहर्ष सम्यन्यते७-१-५० हदेवशरणमिश्रः ३९. राजस्थानान्तर्गतयोधपुरराज्यरक्षिते "दरबारमहाविद्यालये" मुख्यसंस्कृताध्यापकानां व्याकरणाचार्य, काव्यतीर्थ, साहित्यरत्नेत्युपाधित्रयविभूषितानां पण्डितवरश्रीसत्यनारायणमिश्रमहाशयानां “सम्मतिः” विशुद्धस्य तत्तत्सम्पदाये प्रमाणतयाऽभ्युपगतस्य पञ्चाङ्गस्याशेषतिथीनां प्रवेशादिकालगोचरं प्रामाण्यमसङ्कुचितमञ्चति । "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" वचनञ्चेदमाचार्यवर्योमास्वातेः क्षीणानां वृद्धानाञ्च पर्वतिथीनां दिवसमात्रमाराधनाया अभिधत्ते न तु विपरीतीकुरुते कालं तासां प्रवेशादेटिप्पणभणितमिति शास्त्रयुक्तिप्रमाणकं काशीस्थकोविदवृन्दमतमादरीदरीति । ११-२-५० । ह. सत्यनारायणमिश्रः ४०. लक्ष्मणपुर (लखनऊ) नगरे प्रान्तीयसचिवालयोपजीविपाठ्यपुस्तकनिर्धारणपरिषदः सदस्यानां संस्कृतहिन्दीभाषयोमहाध्यापकानाम् पं० श्रीरामचन्द्रमालवीयमहोदयानाम् एम० ए० व्याकरणशास्त्राचार्याणां “सम्मतिः” पञ्चाङ्गं तिथीनां प्रवेशादिकालपतिपादनपरं धर्मशास्त्रं च न तत्परम् , तत्परातत्परशास्त्रयोश्च तत्यरस्यैव प्रामाण्यन्तदर्थ इति शास्त्रसिद्धान्तः। अतः “ क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा ।" इति धर्मशास्त्रात्मकस्याचार्योमास्वातिप्रघोषस्य क्षीणवृद्धपर्वतिथीनामाराधनादिनमात्रनिर्णायकत्वमेवोचितं न तु तासां टिप्पणप्रवेदितप्रवेशादिकाले वैपरीत्यकरत्वम्। फलतः प्रामाणिकान्निर्णयादस्मात्प्रतिकूलं श्रीसागरानन्दमूरिमतं तत्त्वान्वेषिभिस्त्याज्यं तदनुकूलं च श्रीरामचन्द्रमरिमतं ग्राह्यमिति स्वाभिप्राय प्रकाशयतिलखनऊ १२-२-५० ह. रामचन्द्रमालवीयः ४१. शास्त्रार्थमहारथैः पण्डितप्रवरैः स्व० श्रीवेणीमाधवशुक्लशर्मभिः प्रतिष्ठापित श्रीकाशीस्थशास्त्रार्थमहाविद्यालये माघसितपञ्चम्यां सोमे २००६ वैक्रमे समवेताः वयं तिथीनां क्षयवृद्धिविषयं शास्त्रतस्तर्कतश्च शास्त्रार्थपद्धत्या समालोच्येदनिश्चिनुमो यत्.. " तिथीनां प्रवेशादिकालविषये तत्तत्सम्पदाये प्रमाणतयाऽभ्युपगतस्य विशुद्धगणितोपजीविनष्टिप्पणस्य प्रामाण्यन्निरपवादम् । अतो यस्याः कस्या अति तिर्यः प्रवेशादिकालः पञ्चाङ्गे (टिप्पणे ) प्राप्यते स न केनापि प्रकारेण परिवर्तयितुं शक्यः । “ क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्याचार्योमास्वातिप्रघोषतया प्रसिद्धस्य वचसः क्षीणानां वृद्धानाञ्च पर्वतिथीनामाराधनादिनव्यवस्थापकत्वमेव न तु तासां पञ्चाङ्गोक्तकालपरिवर्तकत्वं किञ्चिदपि, एकशास्त्रस्यासाधारणे विषये शास्त्रान्तरस्य विपरीतबोधानर्जकत्वस्यैव सर्वसम्मतिपन्नसिद्धान्ततया टिप्पणस्यासाधारणे विषये तिथ्यादिप्रवेशादिसमयरूपे धर्मशास्त्रभूतस्यापि तस्य वचसः प्रवृत्त्ययोगात् " इत्येष एव शास्त्रसदाचारसम्मतस्सुनिश्चितस्सिद्धान्त इति४२. ह० श्रीमथुराप्रसाददीक्षितः महामहोपाध्यायः ( राजगुरु-सोलन स्टेट, शिमला, पञ्जाब) ४३. ह. श्रीरामावधिशास्त्री (प्रिंसिपल-विशुद्धानन्द-संस्कृतविद्यालय, अहल्याबाई-घाट, काशी) ४४. ह० श्रीमुरलीधरमिश्रः वेदान्तव्याकरणाचार्यः " प्रोफेसर-गवर्नमेण्ट संस्कृतकालेज, बनारस" । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552