________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અર્વતિથિભાસ્કર ]
७८ "श्रीजैनसङ्घ श्रीमदुमास्वातिरचिततया सुविख्यातं " क्षये पूर्वा तिथिः कार्या " इत्यादिवचनं पञ्चाङ्गस्य मामाण्यं मनागप्यसङ्कोचयदेव क्षीणवृद्धपर्वतिथीनामाराधनादिनव्यवस्थापयितृतया जैनानिन्द्यनिबन्धेषु निरुपितन्निभाल्यते" इत्यतः प्रस्तुतं मतं काशीविदुषां सहर्ष सम्यन्यते७-१-५०
हदेवशरणमिश्रः ३९. राजस्थानान्तर्गतयोधपुरराज्यरक्षिते "दरबारमहाविद्यालये" मुख्यसंस्कृताध्यापकानां व्याकरणाचार्य, काव्यतीर्थ, साहित्यरत्नेत्युपाधित्रयविभूषितानां पण्डितवरश्रीसत्यनारायणमिश्रमहाशयानां “सम्मतिः”
विशुद्धस्य तत्तत्सम्पदाये प्रमाणतयाऽभ्युपगतस्य पञ्चाङ्गस्याशेषतिथीनां प्रवेशादिकालगोचरं प्रामाण्यमसङ्कुचितमञ्चति । "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" वचनञ्चेदमाचार्यवर्योमास्वातेः क्षीणानां वृद्धानाञ्च पर्वतिथीनां दिवसमात्रमाराधनाया अभिधत्ते न तु विपरीतीकुरुते कालं तासां प्रवेशादेटिप्पणभणितमिति शास्त्रयुक्तिप्रमाणकं काशीस्थकोविदवृन्दमतमादरीदरीति । ११-२-५० ।
ह. सत्यनारायणमिश्रः ४०. लक्ष्मणपुर (लखनऊ) नगरे प्रान्तीयसचिवालयोपजीविपाठ्यपुस्तकनिर्धारणपरिषदः सदस्यानां संस्कृतहिन्दीभाषयोमहाध्यापकानाम् पं० श्रीरामचन्द्रमालवीयमहोदयानाम् एम० ए० व्याकरणशास्त्राचार्याणां “सम्मतिः”
पञ्चाङ्गं तिथीनां प्रवेशादिकालपतिपादनपरं धर्मशास्त्रं च न तत्परम् , तत्परातत्परशास्त्रयोश्च तत्यरस्यैव प्रामाण्यन्तदर्थ इति शास्त्रसिद्धान्तः। अतः “ क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा ।" इति धर्मशास्त्रात्मकस्याचार्योमास्वातिप्रघोषस्य क्षीणवृद्धपर्वतिथीनामाराधनादिनमात्रनिर्णायकत्वमेवोचितं न तु तासां टिप्पणप्रवेदितप्रवेशादिकाले वैपरीत्यकरत्वम्। फलतः प्रामाणिकान्निर्णयादस्मात्प्रतिकूलं श्रीसागरानन्दमूरिमतं तत्त्वान्वेषिभिस्त्याज्यं तदनुकूलं च श्रीरामचन्द्रमरिमतं ग्राह्यमिति स्वाभिप्राय प्रकाशयतिलखनऊ १२-२-५०
ह. रामचन्द्रमालवीयः ४१. शास्त्रार्थमहारथैः पण्डितप्रवरैः स्व० श्रीवेणीमाधवशुक्लशर्मभिः प्रतिष्ठापित श्रीकाशीस्थशास्त्रार्थमहाविद्यालये माघसितपञ्चम्यां सोमे २००६ वैक्रमे समवेताः वयं तिथीनां क्षयवृद्धिविषयं शास्त्रतस्तर्कतश्च शास्त्रार्थपद्धत्या समालोच्येदनिश्चिनुमो यत्.. " तिथीनां प्रवेशादिकालविषये तत्तत्सम्पदाये प्रमाणतयाऽभ्युपगतस्य विशुद्धगणितोपजीविनष्टिप्पणस्य प्रामाण्यन्निरपवादम् । अतो यस्याः कस्या अति तिर्यः प्रवेशादिकालः पञ्चाङ्गे (टिप्पणे ) प्राप्यते स न केनापि प्रकारेण परिवर्तयितुं शक्यः । “ क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्याचार्योमास्वातिप्रघोषतया प्रसिद्धस्य वचसः क्षीणानां वृद्धानाञ्च पर्वतिथीनामाराधनादिनव्यवस्थापकत्वमेव न तु तासां पञ्चाङ्गोक्तकालपरिवर्तकत्वं किञ्चिदपि, एकशास्त्रस्यासाधारणे विषये शास्त्रान्तरस्य विपरीतबोधानर्जकत्वस्यैव सर्वसम्मतिपन्नसिद्धान्ततया टिप्पणस्यासाधारणे विषये तिथ्यादिप्रवेशादिसमयरूपे धर्मशास्त्रभूतस्यापि तस्य वचसः प्रवृत्त्ययोगात् " इत्येष एव शास्त्रसदाचारसम्मतस्सुनिश्चितस्सिद्धान्त इति४२. ह० श्रीमथुराप्रसाददीक्षितः महामहोपाध्यायः ( राजगुरु-सोलन स्टेट, शिमला, पञ्जाब) ४३. ह. श्रीरामावधिशास्त्री (प्रिंसिपल-विशुद्धानन्द-संस्कृतविद्यालय, अहल्याबाई-घाट, काशी) ४४. ह० श्रीमुरलीधरमिश्रः वेदान्तव्याकरणाचार्यः " प्रोफेसर-गवर्नमेण्ट संस्कृतकालेज, बनारस" ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org