________________
७८
[ જૈન દષ્ટિએ તિથિરિન અને પરાધન-સંગ્રહવિભાગ रसगङ्गाधरसदृशानां महाग्रन्थानामनन्यासाध्यव्याख्याविरचनयाऽसाधारणी विख्यातिमासादितवतां विद्वद्वर पं० श्रीकेदारनाथौझाशर्मणां " सम्मतिः" ___“आचार्योमास्वातिवाचकमुख्यप्रघोषत्वेन सुविश्रुतं "क्षये पूर्वा तिथिः कार्या" इत्यादिकं वचो जैनपर्वतिथीनां क्षयवृद्धयोः प्रसक्तौ तासामाराधनादिनं पञ्चाङ्गस्य यथाश्रुतार्थे प्रामाण्यमहत्वैव प्रतिपादयति । अतः सूर्योदयकाले असत्या अष्टम्यादेस्तदानीं सत्ताकल्पनं द्विसूर्योदयसंसृष्टायाश्च तस्या दिनान्तरमात्रे सङ्कोचनं तत्पूर्वतिथेच क्षयवृद्धिस्वीकरणं सर्वमिदं मोहस्य चेष्टितम् " इत्येतदर्थं वाराणसीविद्वत्सतिष्ठापितं समनुमन्यते सविमर्शमहर्षम् ।
ह० केदारनाथ ओझाः ३५. " मुंशासिंह-डिग्री कालेज, मोतीहारी, बिहार-प्रान्त" इत्येतन्महाविद्यालय प्रोफेसरपदभाजां वेदान्तसाहित्यशास्त्रिणां न्यायव्याकरणशास्त्राचार्याणां पण्डितप्रवरश्रीगिरिजादत्तत्रिपाठि एम० ए० (संस्कृत-हिन्दी) महोदयानां " सम्मतिः"
"श्रीमदुमास्वातिप्रघोषरूपस्य " क्षये पूर्वी " इत्यादिवचनस्य क्षीणवृद्धजैनपर्वतिथीनामाराधनावासरविनिश्चय उपयोगो न तु पञ्चाङ्गविरुद्धस्य तासां प्रवेशादिकालस्य परिबोधने । अतोऽष्टमीचतुर्दश्यादीनां क्षयवृद्धिस्थले एतद्वचनमाश्रित्य श्रीसागरानन्दसूरिभिः क्रियमाणा कुकल्पना शास्त्रविरुद्धतया तर्कप्रतिकूलतया च धर्महानिकरत्वात् परित्याज्या" इत्येव मे मुनिश्चितं मतम् । एतत्संवादादेव " अर्हत्तिथिभास्करे" काशीपण्डितः प्रकटीकृतं मतमनुमोदयामि। १०-१-५०
___ ह. गिरिजादत्तत्रिपाठी ३६. भारतराष्टपितामह स्व. ५० श्रीमदनमोहनमालवीयमहोदयानां पुण्यस्मृतौ प्रतिष्ठापिते हरिद्वारस्थे जयभारतसाधुमहाविद्यालये न्यायव्याकरणप्रधानाध्यापकानां न्याय, व्याकरण, वेदान्त, साहित्याचार्याणां पण्डितश्रीमहानन्दठाकुरमहाशयानां "सम्मतिः"
"श्रीजैनसङ्घ श्रीमदुमास्वातिप्रघोषतया प्रसिद्ध "क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं कार्य लोकानुगैरिह" इति पद्यं क्षीणवृद्धपर्वतिथीनामाराधनादिनव्यवस्थापकत्वेन प्राचीनप्रामाणिकजैनग्रन्थेषु तथोपवर्णितमास्ते यथा पञ्चाङ्गे निर्दिष्टस्य तिथिप्रवेशादिकालस्य विपर्यासो न प्रसज्ज्यते"। अतः काशीपण्डितैरुक्तवचसो योऽभिप्रायः प्रमाणितस्तमेवाहमनुमन्ये । हरिद्वार, १२-१-५०
ह० महानन्दठाकुरः ३७. हरद्वारस्थजयभारतसाधुमहाविद्यालये मुख्याध्यापकानां न्याय, व्याकरण, वेदान्ताचार्य काव्यतीर्थेत्यायपाधिशालिनां श्रीमतां विद्वद्वर–६० त्रिलोकधरद्विवेदिनां “सम्मतिः” ___ "श्रीजैनसम्प्रदाये "क्षये पूर्वी तिथिः कार्या " इत्यादेराचार्योमास्वातिप्रघोषस्य पञ्चाङ्गप्रामाण्यासडोचेनैव क्षीणवृद्धपर्वतिथीनामाराधनादिवसव्यवस्थापकत्वं पुरा मन्यते स्म" इति प्राचीनानेकजैनशास्त्रग्रन्थसाक्षिको योऽर्थः वाराणसेयैर्बुधवयः प्रत्यपादि "अर्हत्तिथिभास्करे" तमेव सममोदमनुमन्यते
ह० त्रिलोकधरद्विवेदी ३८. “ श्रीसारवारसंस्कृतपाठशाला, सलेमपुर, देवरिया" इतिविद्यालये प्रधानाध्यापकानां व्याकरणशास्त्राचार्याणां सुप्रसिद्धाभिधानां पण्डितश्रीदेवशरणमिश्रमहाशयानां “सम्मतिः"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org