________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અહંતિથિભાસ્કર ] पूर्वदिने लोपकरणमित्युभयमपि प्रमाणशून्यम् , अशास्त्रीय सम्भावनातीतश्चेति " काशीकोक्दैिः “अईतिथिभास्करे " प्रतिपादितं मतं समर्थयति
- ह. रामप्रकटमणित्रिपाठी ३०. श्रीसोमेश्वरनाथसंस्कृतमहाविद्यालय, अरेराज, चम्पारन, बिहार-प्रान्त" इति शिक्षणालये प्रिंसिपलपदशोभाकृतां महाविपश्चितां न्यायव्याकरणाचार्य-श्रीसुधाकरत्रिपाठिमहाशयानामनुमतिः
असदर्थगर्भा शासन जयपताकाम् भृशं खण्डयित्वा अर्हत्तिथिभास्करे काशीविद्वत्समित्या जैनपर्वतिथिक्षयवृद्धिविषये व्यवस्थापितं सिद्धान्तं सुदृढमनुमन्यते । पौ. कृ. ७, वै० २००६
.ह. सुधाकरत्रिपाठी ३१. प्रयागस्थश्रीधर्मोपदेशसंस्कृतपाठशालाप्रधानाध्यापकानां संयुक्तप्रान्तीय-संस्कृताध्यापकसङ्घस्यार्थमन्त्रिणां व्याकरणायनेकशास्त्राचार्यपदालङ्कृतानां पण्डितप्रकाण्डश्रीभूपेन्द्रपतित्रिपाठिमहाशयानां “सम्मतिः" ___ " सर्वतिथीनां प्रवेशादिसमयविषये विशुद्धं गणितोपजीव्यकं टिप्पणमेव निरपवादं प्रमाणमिति चतुर्दश्यादिजनपर्वतिथीनां टिप्पणोक्तकालस्य तासां क्षयवृद्धिप्रसने मनागप्यन्यथाकरण सर्वथाऽशास्त्रीयं प्रामाणिकग्रन्थोपलभ्यमानप्राचीनजैनसामाचारीविरुद्धञ्च" इति काशीस्थविद्वत्प्रतिपादितं मतं सुदृढं समर्थयतिदिनाङ्क ६ जनवरी १९५०
ह० भूपेन्द्रपतित्रिपाठी ३२. मुम्बईप्रान्तान्तर्गतधारवारमण्डलावयवगदगनगरस्थश्रीजगद्गुरुशिवानन्दसंस्कृतमहाविद्यालयप्रधानाध्यक्षाणां वेदान्तसांख्ययोगशास्त्राचार्याणां, वे०, सां, काव्यतीर्थानां न्यायमीमांसाशास्त्रिणां दर्शनरत्नाकराणां विद्वद्वरश्रीमन्महेश्वरशालि. महाभागानां " सम्मतिः" . "अतिपरिशीलितगणितोपजीविना पञ्चाङ्गेन कथ्यमानस्तत्तत्तिथिसमयो न केनापि साधनेन परिवर्तयितुं शक्योऽतः सूर्योदयस्पर्शशून्यायाः पर्वतिर्थरर्कोदयकाले विद्यमानताया दिनद्वये दिवाकरोदयं स्पृशन्त्याश्च तस्याः पूर्वस्मिन्नहनि लोपफलायाः द्वितीयदिनसत्तायाश्च स्वीकरणं प्रमाणापाटवमवद्योतयति" इति मे मतम् ।
____ ह० महेश्वरशास्त्री ३३. विश्वकविश्रीरवीन्द्रनाथटगोरमहाशयानां मूर्तभावनाभूते वङ्गप्रान्तान्तर्वर्तिनि शान्तिनिकेतने राष्ट्रभाषाप्रधानाध्यापकानां ज्योतिषसाहित्याचार्याणां हिन्दीजगतः सर्वश्रेष्ठपण्डितानां विश्वभारती प्रधानसम्पादकानाम् आचार्यश्री. हजारीप्रसादद्विवेदि डी० लिट्० महोदयानां " सम्मतिः"
" विशुद्धगणिताधारण प्रणीतं पश्चाङ्गमेव तिथिनक्षत्रादीनां मानमुपवर्णयितुं प्रभवति, अतस्तदनुसारेणैव व्रतोपवासप्रभृतीनि धार्मिककृत्यानि कर्तव्यानि । ___निर्दोषगणिताश्रितपञ्चाङ्गानुसारेणैव परिणयादिलक्षणानि माङ्गलिककार्याण्यप्यनुष्ठेयानि । प्रामाणिकपश्चाङ्गनिर्दिष्टः तिथ्यादिप्रवेशादिकालश्चापरेण केनापि शास्त्रेण विपरिवर्तयितुं न शक्य" इति काशीपण्डितमण्डलीमतं मुदाभिनन्दनात्मनीनं निश्चयमिमं दाढर्थे नोद्घोषयामि यद् धार्मिकसामाजिकविधेयजातेषु विशुद्धपश्चाङ्गीयो यथाश्रुतस्तिथ्यादिनिर्देश एव समादरास्पदमिति । शान्तिनिकेतन
___ ह० हजारीप्रसादद्विवेदी ३४. जयपुरस्थमहाराजसंस्कृतमहाविद्यालये व्याकरणप्रधानाचार्याणां न्यायवेदान्तव्याकणाचार्याणां दर्शनालङ्काराणां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org