________________
| [ જૈન દષ્ટિએ તિથિદિન અને પર્વરાધન-સંગ્રહવિભાગ विध्यते " इति मतं प्रकाशितम् “ अर्हत्तिथिभास्कर " इत्येतत्प्रबन्धे पण्डितैर्वाराणस्यास्सप्रमोद प्रामाणिकत्वेनानुमन्ये ।
ह० रघुवरप्रसाद शुक्ल २५. गोरखपुरनगरे बालमुकुन्दमहाविद्यालये संस्कृतविभागप्रधानाध्यापकानां साहित्यव्याकरणाचार्याणां श्रीमताम् मनीषिवर्याणाम् अवधेशनाथमिश्रमहाशयानां “समर्थनम्"
"क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इति वचनं पर्वतिथीनां क्षयवृद्धी समनुमन्यमानं तासामाराधनादिवसं प्रदर्शयति, न तु तासां पञ्चाङ्गप्रोक्तं समयं पश्चात् पुरस्ताद्वा नयति" इति वाराणसेयविद्वज्जनैः " अर्हत्तिथिभास्करे " प्रतिपादितं शास्त्रीयमर्थं समर्थतिमाघ कृष्ण ५, सं० २००५
ह. अवधेशनाथमिश्रः २६. “ गवर्नमेण्ट ट्रेनिङ्ग कालेज, गोरखपुर” इति विद्यालये संस्कृतविभागाध्यापकानां व्याकरणाचार्यपण्डितश्रीरमापतिचतुर्वेदिमहाशयानां “ सम्मतिः" ___ "क्षये पूर्वा" इत्यादिक आचार्योंमास्वातिप्रघोषः क्षीणानां वृद्धानाच जैनपर्वतिथीनामाराधनादिनमात्रं प्रमापयति न तु तासां पश्चाङ्गसचित स्वाभाविकं समयमन्यथाकत पारयति" इति " अर्हत्तिथिभास्करे " प्रतिष्ठापितं श्रीरामचन्द्रसूरिपक्षं शास्त्रयुक्तिसम्मतं सम्मन्यते८-१-५०
__ ह. रमापतिचतुर्वेदी ___ २७. लखनऊ धर्मसङघसंस्कृतमहाविद्यालये प्रधानाध्यापकानां साहित्यभूषणव्याकरणाचार्यादिपदभाजां पण्डितश्रीरामचरित्रपाण्डेय महानुभावानां “सम्मतिः”
श्रीजैनसङ्घ श्रीमदुमास्वातिप्रघोषतया प्रसिद्धं “क्षये पूर्वा तिथिः कार्या" इत्यादिकं पद्य क्षीणवृद्धपर्वतिथीनामाराधनावासरं विनिश्चाययति न तु तासां प्रवेशादिकालं प्रकृत्य किञ्चित्प्रतिपादयति " इति काशीकोविदकीर्तितं शास्त्रसत्तर्कसंवलितं मतं समर्थयति
___ ह. रामचरित्रपाण्डेयः २८. “ रणधीर-कालेज, कपूरथला, पञ्जाब" इति शिक्षणालये संस्कृतविभागप्रधानाध्यक्षाणाम् अनेकसद्ग्रन्थरचनया पण्डितमण्डलीषु प्रतिष्ठापितप्रभावाणां व्याकरणाचार्याणां विद्वद्वरश्रीश्रीधरानन्दशास्त्रिघिल्डियालमहाशयानां " अनुमतिः "
जैनसम्प्रदाये श्रीमदाचार्योमास्वातिपघोषतया प्रसिद्धिमध्यासीनं "क्षये पूर्वा तिथिः" इत्यादि पद्याधं क्षीणानां वृद्धानाञ्च पर्वतिथीनामाराधनादिनमात्रमावेदयति न तु तासान्निसर्गसङ्गतं पञ्चाङ्गविनिवेदितं प्रवेशादिकालमन्यथयति " मतमेतद् वाराणसेयविदुषाम् “अर्हत्तिथिभास्करतः" प्रपश्यन् परमां प्रीतिमुपयन् तस्य प्रामाणिकतां समुपोद्वलयति७-१-५०
ह० श्रीधरानन्दघिल्डियालः २९. गोण्डामण्डलावयवबलरामपुरराजस्य प्रधानपण्डितानां तदीयविद्यालये संस्कृतविभागप्रधानाध्यापकानाम् अनन्यकवीनां साहित्यव्याकरणन्यायाचार्यप्रभृत्यनेकोपाधिभिर्मण्डितानां श्रीरामप्रकटमणित्रिपाठिमहोदयानां “समर्थनम्" ___“विशुद्धगणितोपजीविना पश्चाङ्गेन प्रोच्यमानस्तत्तिथिसमयो न केनापि साधनेनान्यथयितुं शक्य इति सूर्योदयकाले प्रवृत्तायाः कस्या अपि तिथेस्तत्र प्रवृत्तिमाननं दिनद्वये सूर्योदयं स्पृशन्त्याश्च
९-१-५०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org