SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્હત્તિયિભાસ્કર ] २०. शान्तिनिकेतने भूतपूर्वसंस्कृताध्यापकानां " मानवभारती " इति नाम्न्याः सुप्रसिद्द्धाया अन्तरराष्ट्रियसांस्कृतिकशिक्षणसंस्थायाः प्रतिष्ठापकानां साहित्याचार्य - पण्डित - श्रीदुर्गाप्रसादपाण्डेय - पी. एच. डी., डी. लिटू महोदयानां “ सम्मतिः "" तिथ्यादीनां प्रवेशादिकालप्रतिपादनं प्रामाणिकपञ्चाङ्गमात्राधिकारिकम् । तत्र धर्मशास्त्रस्य हस्तक्षेप नितरामनुचितः । यतो हि यो यस्य शास्त्रस्यासाधारणो विषयस्तत्र शास्त्रान्तरं प्रवर्तितुं नोत्सहत इति सर्वतन्त्रसिद्धान्तः । अतः “ क्षये पूर्वा तिथिः कार्या ” इत्याचार्यौमास्वातिप्रघोषस्यार्हतधर्मशास्त्रात्मनः पञ्चाङ्गप्रोक्ततिथिकालान्यथाकारिणी कस्यापि व्याख्या शास्त्रतत्त्वज्ञानां सम्मान - भाजनीभवितुन्नार्हतीति मन्निश्चयानुरूपं वाराणसीविद्वन्मतं सानन्दं समर्थयामीति — मानवभारती - मसूरी, ५-१-५० ह० दुर्गाप्रसादपाण्डेयः २१. अयोध्यास्थ राजगोपाल - संस्कृत - पाठशालाप्रधानाध्यापकानां न्यायव्याकरणाचार्याणां संयुक्तप्रान्तीयसंस्कृताध्यापकसङ्घसभापतीनां पण्डितराज - श्रीरुद्रप्रसादावस्थिमहाभागानां " समुद्घोषः काशी विद्वतजैर्यदिदमुच्यते यत् " तत्तत्सम्प्रदाये तिथ्यादिनिर्णयाय प्रमाणतयाऽभ्युपगतेन पञ्चाङ्गेन यस्यास्तिथेर्यः प्रवेशादिकालो निर्दिश्यते स न केनापि कथमति परिवर्तयितुं शक्य " इति । तदेव शास्त्रसिद्धान्ततया समुद्घोषयति ८-१-५० ह० रुद्रप्रसादः अवस्थी २२. “ गवर्नमेण्ट इ० कालेज, फैजाबाद " इत्येतस्मिन् शिक्षालये संस्कृतविभागस्य प्रधानाध्यापकानां व्याणाचार्य - श्रीनृसिंहनाथ त्रिपाठि महोदयानां " ' समुद्घोषः “ सर्वतिथीनां प्रवेशादिकालविषये विशुद्धं पञ्चाङ्गमेव प्रमाणम् । तदुदितः कस्या अपि तिथे: कालो न किञ्चिदप्यन्यथाकर्तुं शक्यः । अतः क्षीणायाः पर्वतिथेः सूर्योदयकाले सम्बन्धकल्पनं वृद्धायाश्च पर्वतिथेः पूर्वदिनसम्बन्धलोपपर्यवसायिनो द्वितीयदिने नियमनस्य कल्पनमित्युभयमेव शास्त्रतत्वानवबोधविजृम्भणमिति “ अर्हत्तिथिभास्करे " काशीस्थविद्वद्भिः प्रकाशितं मतं प्रामाणिकत्वेनोद्घोषयति । ह० नृसिंहनाथत्रिपाठी (C ७५ ,, ७-१-५० २३. एम० ए०, ( संस्कृत-हिन्दी - दर्शन ) एल. एल. बी. साहित्याचार्यविद्याभूषणप्रभृत्यनेकोपाधिविभूषितानां 'कालविन ताल्लुकेदार कालेज, लखनऊ " इति विद्यालये प्रधान संस्कृताध्यापकानां पं० श्री राजमङ्गलनाथत्रिपाठी महाशयानां “ अनुमतिः 95 " तिथीनां प्रवेशादौ विशुद्धं पञ्चाङ्गं विनाऽपवादेन प्रमाणमिति कस्या अपि तिथेस्तदुदितः समयो नेषन्मात्रमपि पुरः पचाद्वा नेतुं शक्यः " इत्येतदाधारेण " अर्हत्तिथिभास्करे " वाराणसेय पण्डितैः प्रतिष्ठापितमाचार्यश्रीरामचन्द्रसूरिमतं शास्त्र सिद्धान्ततया समनुमन्यते— Jain Education International ८-१-५० ह० राजमङ्गलनाथत्रिपाठी २४. “ गवर्नमेण्ट इ० कालेज, झाँसी " इत्येतन्महाविद्यालये संस्कृतविभागाध्यक्षाणां काव्यतीर्थ - साहित्याचार्यपण्डितप्रवर-श्रीरघुवरप्रसाद शुक्ल महोदयानां " अनुमतिः " 66 क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा " इत्याचार्यौमास्वातिपद्यार्धेन क्षीणानां "वृद्धानाञ्च पर्वतिथीनामाराधनादिवसमात्रं निर्णीयते न तु तासां पञ्चाङ्गप्रोक्तः प्रवेशादिसमयः प्रति For Personal & Private Use Only www.jainelibrary.org
SR No.005673
Book TitleTithidin ane Parvaradhan tatha Arhattithibhaskar
Original Sutra AuthorN/A
AuthorJain Pravachan Pracharak Trust
PublisherJain Pravachan Pracharak Trust
Publication Year1977
Total Pages552
LanguageGujarati, Hindi, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy