________________
७४
[ જૈન દષ્ટિએ તિથિરિન અને પરાધન-સંગ્રહવિભાગ १६. सर्वतन्त्रस्वतन्त्राणां विद्वदनुकरणीयचरित्राणां प्राणाधिकधर्माणां काशीस्थसाङ्गवेदविद्यालयप्रधानाध्यक्षाणाम् अखिलभारतवर्षीयवर्णाश्रमस्वराज्यसङ्घसंरक्षकाणां वाराणसीबुधालंकाराणां पण्डितराजश्रीराजेश्वरशास्त्रिद्राविडमहाभागानां “सम्मतिः"
तिथीनां प्रवेशादिकालविषये प्राचीनप्रामाणिकज्यौतिषग्रन्थानुसारेण प्रणीतस्य विशुद्धपञ्चाङ्गस्य प्रामाण्यन्निरपवादमिति कस्या अपि तिथेस्तदुदितकालस्यान्यथाकरणं स्तोकमपि सम्भावनापदादपेतम् । "क्षये पूर्वी तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इति वचनं च क्षीणानां वृद्धानां च पर्वतिथीनां धर्मकार्येषु ग्राह्यताकथन्तां शमयति न तु तासां पञ्चाङ्गनिर्दिष्टं प्रवेशादिकालम् परिवर्तयतीति शास्त्रसिद्धान्त इति सम्मन्यतेकाशी-रामनगरे, मा० कृ० ४ रवौ, २००६
ह० राजेश्वरशास्त्रीद्राविडः ___ १७. न्यायव्याकरणसाहित्याचार्यव्याकरणभूषणादिपदवीभाजां रामनिरञ्जनदासमुरारकासंस्कृतमहाविद्यालयाध्यक्षाणां स्व० म. हामहोपाध्यायपण्डितेन्द्र-पूज्यश्रीहरिहरकृपालुद्विवेदितनुजन्मनां विद्वद्वरश्रीब्रह्मदत्तद्विवेदिमहानुभावानां "समर्थनम्"
"प्रामाणिकं पञ्चाङ्गं सर्वतिथीनां प्रवेशादिकालविषये विनाऽपवादं प्रमाणम् । “क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इत्याचार्योमास्वातिवचश्च क्षीणानां वृद्धानाञ्च पर्वतिथीनामाराधनादिवसन्निश्चाययति न तु तासां पञ्चाङ्गप्रोक्तं कालं परिवर्तयति ।" इति काशीस्थविदुषां मतं समर्थयति प्रकाशितम् " अईत्तिथिभास्कर" नाम्ना निबन्धेन । पटना बिहार, २३-१-५०
ह० ब्रह्मदत्तद्विवेदी १८. ( क ) बोर्ड आफ संस्कृत स्टडीज (यू० पी० गवर्नमेण्ट ) गवर्नमेण्टसंस्कृतकालेजपरीक्षापाठयक्रमसमिति । (ख) युक्तप्रान्तनागरीलिपिसुधारसमिति (यू० पी० गवर्नमेण्ट), (ग) संस्कृतपाठशालानिरीक्षणसमिति (पैनल आफ इन्सपैक्टर्स, यू. पी. गवर्नमेण्ट)। इत्येवमादिसुप्रतिष्ठितानेकसमितिसदस्यानां कानपुर-नगरस्थ-श्रीबलदेवसहाथसंस्कृतमहाविद्यालये प्रिंसिपलपदे विराजमानानां व्याकरण, साहित्याचार्य, काव्यतिर्थादिपदालतानां पण्डितप्रवर-श्रीचन्द्रशेखरशास्त्रिणां "सम्मतिः"
"शास्त्रप्रमाणकपञ्चाङ्गनिर्दिष्टः कस्या अपि तिथेः प्रामाणिकः प्रवेशादिकालः कथमपि परिवर्तनं नार्हतीति काशीस्थसंख्यावत्सम्मतः सिद्धान्तः सर्वात्मना समीचीनः" इति मनुते११-१-५०
__ ह० चन्द्रशेखरशास्त्री १९. साहित्यव्याकरणयोः शास्त्राचार्यपदभाजामनेकच्छात्राचार्याणां मुम्बईस्थभारतीविद्याभवने साहित्यव्याकरणविभागप्रधानाचार्याणां पण्डितप्रवरश्रीशिवनाथशर्मोपाध्यायानां " सम्मतिः"
वाराणस्याः मान्यमनीषिभिः सम्पादितः " अर्हत्तिथिभास्कर " नामा निबन्धो मया सावधानतया सम्यङ निरीक्षितः । अत्र श्रीसागरानन्दमूरिमतपोषणे प्रवृत्तायाः " शासनजयपताकायाः" विद्वन्मनोहरेण मार्गेण तादृशं खण्डनं कृतमस्ति यस्योत्तरणं सम्भावनाबहिर्भूतम् । क्षीणवृद्धजैनपर्वतिथ्याराधनविषये चानेकानि जैनशास्त्रोद्धरणानि सुविस्तृतानि वितीर्य “ क्षये पूर्वा तिथिः कार्या" इत्यादिकमाचार्योमास्वातिपद्यं पञ्चाङ्गमामाण्यपरीक्षणप्रवीणेन येन पथा व्याख्यातं स नितरानिष्कण्टकः कोविदवर्गप्रशंसासमाकर्षकश्चेति " अर्हत्तिथिभास्करे " समर्थितं श्रीरामचन्द्रमरिमतं धर्म्यतया मयाऽनुमोद्यतेतरामिति२५-६-५०
ह० शिवनाथोपाध्यायः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org