Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

View full book text
Previous | Next

Page 477
________________ ७४ [ જૈન દષ્ટિએ તિથિરિન અને પરાધન-સંગ્રહવિભાગ १६. सर्वतन्त्रस्वतन्त्राणां विद्वदनुकरणीयचरित्राणां प्राणाधिकधर्माणां काशीस्थसाङ्गवेदविद्यालयप्रधानाध्यक्षाणाम् अखिलभारतवर्षीयवर्णाश्रमस्वराज्यसङ्घसंरक्षकाणां वाराणसीबुधालंकाराणां पण्डितराजश्रीराजेश्वरशास्त्रिद्राविडमहाभागानां “सम्मतिः" तिथीनां प्रवेशादिकालविषये प्राचीनप्रामाणिकज्यौतिषग्रन्थानुसारेण प्रणीतस्य विशुद्धपञ्चाङ्गस्य प्रामाण्यन्निरपवादमिति कस्या अपि तिथेस्तदुदितकालस्यान्यथाकरणं स्तोकमपि सम्भावनापदादपेतम् । "क्षये पूर्वी तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इति वचनं च क्षीणानां वृद्धानां च पर्वतिथीनां धर्मकार्येषु ग्राह्यताकथन्तां शमयति न तु तासां पञ्चाङ्गनिर्दिष्टं प्रवेशादिकालम् परिवर्तयतीति शास्त्रसिद्धान्त इति सम्मन्यतेकाशी-रामनगरे, मा० कृ० ४ रवौ, २००६ ह० राजेश्वरशास्त्रीद्राविडः ___ १७. न्यायव्याकरणसाहित्याचार्यव्याकरणभूषणादिपदवीभाजां रामनिरञ्जनदासमुरारकासंस्कृतमहाविद्यालयाध्यक्षाणां स्व० म. हामहोपाध्यायपण्डितेन्द्र-पूज्यश्रीहरिहरकृपालुद्विवेदितनुजन्मनां विद्वद्वरश्रीब्रह्मदत्तद्विवेदिमहानुभावानां "समर्थनम्" "प्रामाणिकं पञ्चाङ्गं सर्वतिथीनां प्रवेशादिकालविषये विनाऽपवादं प्रमाणम् । “क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इत्याचार्योमास्वातिवचश्च क्षीणानां वृद्धानाञ्च पर्वतिथीनामाराधनादिवसन्निश्चाययति न तु तासां पञ्चाङ्गप्रोक्तं कालं परिवर्तयति ।" इति काशीस्थविदुषां मतं समर्थयति प्रकाशितम् " अईत्तिथिभास्कर" नाम्ना निबन्धेन । पटना बिहार, २३-१-५० ह० ब्रह्मदत्तद्विवेदी १८. ( क ) बोर्ड आफ संस्कृत स्टडीज (यू० पी० गवर्नमेण्ट ) गवर्नमेण्टसंस्कृतकालेजपरीक्षापाठयक्रमसमिति । (ख) युक्तप्रान्तनागरीलिपिसुधारसमिति (यू० पी० गवर्नमेण्ट), (ग) संस्कृतपाठशालानिरीक्षणसमिति (पैनल आफ इन्सपैक्टर्स, यू. पी. गवर्नमेण्ट)। इत्येवमादिसुप्रतिष्ठितानेकसमितिसदस्यानां कानपुर-नगरस्थ-श्रीबलदेवसहाथसंस्कृतमहाविद्यालये प्रिंसिपलपदे विराजमानानां व्याकरण, साहित्याचार्य, काव्यतिर्थादिपदालतानां पण्डितप्रवर-श्रीचन्द्रशेखरशास्त्रिणां "सम्मतिः" "शास्त्रप्रमाणकपञ्चाङ्गनिर्दिष्टः कस्या अपि तिथेः प्रामाणिकः प्रवेशादिकालः कथमपि परिवर्तनं नार्हतीति काशीस्थसंख्यावत्सम्मतः सिद्धान्तः सर्वात्मना समीचीनः" इति मनुते११-१-५० __ ह० चन्द्रशेखरशास्त्री १९. साहित्यव्याकरणयोः शास्त्राचार्यपदभाजामनेकच्छात्राचार्याणां मुम्बईस्थभारतीविद्याभवने साहित्यव्याकरणविभागप्रधानाचार्याणां पण्डितप्रवरश्रीशिवनाथशर्मोपाध्यायानां " सम्मतिः" वाराणस्याः मान्यमनीषिभिः सम्पादितः " अर्हत्तिथिभास्कर " नामा निबन्धो मया सावधानतया सम्यङ निरीक्षितः । अत्र श्रीसागरानन्दमूरिमतपोषणे प्रवृत्तायाः " शासनजयपताकायाः" विद्वन्मनोहरेण मार्गेण तादृशं खण्डनं कृतमस्ति यस्योत्तरणं सम्भावनाबहिर्भूतम् । क्षीणवृद्धजैनपर्वतिथ्याराधनविषये चानेकानि जैनशास्त्रोद्धरणानि सुविस्तृतानि वितीर्य “ क्षये पूर्वा तिथिः कार्या" इत्यादिकमाचार्योमास्वातिपद्यं पञ्चाङ्गमामाण्यपरीक्षणप्रवीणेन येन पथा व्याख्यातं स नितरानिष्कण्टकः कोविदवर्गप्रशंसासमाकर्षकश्चेति " अर्हत्तिथिभास्करे " समर्थितं श्रीरामचन्द्रमरिमतं धर्म्यतया मयाऽनुमोद्यतेतरामिति२५-६-५० ह० शिवनाथोपाध्यायः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552