Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

Previous | Next

Page 475
________________ | [ જૈન દૃષ્ટિએ તિથિદિન અને પરાધન-સંગ્રહવિભાગ सम्मतिमुल्लेखितुमहं लेखनीमुदतिष्ठिपम् । परमद्य तु समुदश्चन् " अर्हत्तिथिभास्करः" साक्षाद् भगवान् भास्कर इव वाराणसेय विद्वत्समितेः पुरस्तादवतरन् सर्वतस्तन्मान्यतया श्रीविजयरामचन्द्रसूरिपक्षस्यैव न्याय्यतामुपोदलयतीति "बुद्धेः फलमनाग्रह " इति न्यायेन स्वपूर्वसम्मतिमनभिविशमानः सम्यगवगाह्य भास्करोद्भासितपक्ष एव स्वदृढसम्मतिमुपक्षिपामीत्यलम् । ह० श्रीभूपनारायणझाः १०. ज्यौतिषतीर्थ, ज्योतिषाचार्य, ज्यौतिषमार्तण्डप्रभृत्यनेकपदवीविभ्राजितानां सुरगवीमैथिलीकवयितृपुरोगण्यानां श्री संन्यासिसंस्कृतमहाविद्यालय-काशीप्रधानाध्यापकानां पं० श्रीसीतारामझामहोदयानां " समर्थनम्" म० म० पं० श्रीचिन्नस्वामिशास्त्रिसम्पादितायां " श्रीशासनजयपताकायां " पूर्वमहं हस्ताक्षराण्यकरवम् । तत्र कारणमेतदासीद् यत् तत्प्रणयनकृता तादृश एवार्थस्तत्र लिखिततया निवेदितो यः प्रमाणप्रतिकूलतान बिभर्ति स्म । परमिदानीम् " अर्हत्तिथिभास्कर " नाम्नो निबन्धस्य पर्यालोचनसमये "पताकां" तां प्रत्यक्षतः पश्यन् तत्राष्टमीचतुर्दश्यादीनां ज्यौतिषशास्त्रस्य, " तत्त्वतरङ्गिणी" "कल्पसूत्रदीपिका " " श्रीसेनप्रश्नः " " श्रीहीरप्रश्नः" इत्यादिजैनशास्त्रग्रन्थजातस्य च विरुद्धं सर्वथा सम्भावनापदादपेतं टिप्पणोक्तकालान्यथाकरणं तस्यां व्यवस्थापितं प्राप्नुवन् तत्मणेतुर्विश्वासात् तदुक्तिमात्रेण तत्र हस्ताक्षरप्रदानाद् विषीदामि । अतः “पताका " प्रतिपादिते पक्षे जैनजनतायाः प्रामाणिकत्वभ्रान्तौ स्वहस्ताक्षराणां प्रयोजकीकरणेन प्रसक्तदोषस्य परिजिहीर्षया वाराणस्याः विद्वद्वर्यैः " अर्हत्तिथिभास्करे " महता विचारेण प्रतिष्ठापितं जैनपर्वतिथिक्षयवृद्धिविषयकं सिद्धान्तमेव जैनशास्त्रसामाचारीसम्मतवया ज्यौतिषशास्त्रानुमततया च समर्थयामीति । ह० श्रीसीतारामझाः ११. व्याकरणशास्त्राचार्यवर्याणां विद्वत्प्रवराणां बहुविधग्रन्थनिर्माणेन प्राप्तप्रकृष्टप्रतिष्ठानां गुर्जरदेशावतंसानां महनीयमत्युत्साहशीलानां काशीस्थखेतानमहाविद्यालयाध्यक्षपदे प्रतिष्ठितानां पं.श्रीबालकृष्णशर्मपञ्चोलिमहाशयानां "वक्तव्यम्" पूर्व जैनमतानुसारेण पर्वीभूततिथिवृद्धिक्षयविषये जातविवादे " शासनजयपताका" नाम्नी व्यवस्था काचन मत्समक्षमागता । तत्र जैनधर्मग्रन्थाननवलोक्यैव तव्यवस्थाऽनुरोधेन हस्ताक्षरं व्यधायि। ___ अधुना परस्परं विवदमानानां जैनाचार्याणां व्यवस्थाद्वयमवाप्य विविच्य च "अर्हत्तिथिभास्कर" इत्याख्या व्यवस्थैव प्रामाणिकीति प्रमाणयतिअधिकाशि-२५-१२-४९ ह. बालकृष्णशर्मा पञ्चोली १२. "वाराणसीपण्डितसभा” सम्पादकानां “महामहाध्यापक: " "न्यायकेशरी” “तर्कतीर्थः" " न्यायाचार्यः” इत्याद्यनेकपदवीविभूषितानां तार्किकचक्रचूड़ामणीनां पूर्व ज़ो० म० गोयनका-संस्कृत-महाविद्यालये न्यायशास्त्रप्रधानाध्यापकानामधुना काशीहिन्दूविश्वविद्यालये दर्शनविभागाध्यापकानाम् पं. श्रीवामाचरणभट्टाचार्यमहा शयानाम् “वक्तव्यम्” . पूर्व जैनग्रन्थाननवलोक्यैव " शासनजयपताकायां " मया हस्ताक्षरं कृतम् । इदानीमवलोकितजैनधर्मग्रन्थेन निश्चीयते मया यत् साम्प्रतिकी " अर्हत्तिथिभास्कर " व्यवस्थैव सर्वथा समीचीना । धर्मान्तरसमाचारादप्यवगम्यते तावदियमेव व्यवस्था शास्त्रसिद्धेति प्रमाणीकरोति । । काशी-मा० कृ. ४, २००६ वै० ह० वामाचरणभट्टाचार्यः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552