________________
| [ જૈન દૃષ્ટિએ તિથિદિન અને પરાધન-સંગ્રહવિભાગ सम्मतिमुल्लेखितुमहं लेखनीमुदतिष्ठिपम् । परमद्य तु समुदश्चन् " अर्हत्तिथिभास्करः" साक्षाद् भगवान् भास्कर इव वाराणसेय विद्वत्समितेः पुरस्तादवतरन् सर्वतस्तन्मान्यतया श्रीविजयरामचन्द्रसूरिपक्षस्यैव न्याय्यतामुपोदलयतीति "बुद्धेः फलमनाग्रह " इति न्यायेन स्वपूर्वसम्मतिमनभिविशमानः सम्यगवगाह्य भास्करोद्भासितपक्ष एव स्वदृढसम्मतिमुपक्षिपामीत्यलम् ।
ह० श्रीभूपनारायणझाः १०. ज्यौतिषतीर्थ, ज्योतिषाचार्य, ज्यौतिषमार्तण्डप्रभृत्यनेकपदवीविभ्राजितानां सुरगवीमैथिलीकवयितृपुरोगण्यानां श्री संन्यासिसंस्कृतमहाविद्यालय-काशीप्रधानाध्यापकानां पं० श्रीसीतारामझामहोदयानां " समर्थनम्"
म० म० पं० श्रीचिन्नस्वामिशास्त्रिसम्पादितायां " श्रीशासनजयपताकायां " पूर्वमहं हस्ताक्षराण्यकरवम् । तत्र कारणमेतदासीद् यत् तत्प्रणयनकृता तादृश एवार्थस्तत्र लिखिततया निवेदितो यः प्रमाणप्रतिकूलतान बिभर्ति स्म । परमिदानीम् " अर्हत्तिथिभास्कर " नाम्नो निबन्धस्य पर्यालोचनसमये "पताकां" तां प्रत्यक्षतः पश्यन् तत्राष्टमीचतुर्दश्यादीनां ज्यौतिषशास्त्रस्य, " तत्त्वतरङ्गिणी" "कल्पसूत्रदीपिका " " श्रीसेनप्रश्नः " " श्रीहीरप्रश्नः" इत्यादिजैनशास्त्रग्रन्थजातस्य च विरुद्धं सर्वथा सम्भावनापदादपेतं टिप्पणोक्तकालान्यथाकरणं तस्यां व्यवस्थापितं प्राप्नुवन् तत्मणेतुर्विश्वासात् तदुक्तिमात्रेण तत्र हस्ताक्षरप्रदानाद् विषीदामि । अतः “पताका " प्रतिपादिते पक्षे जैनजनतायाः प्रामाणिकत्वभ्रान्तौ स्वहस्ताक्षराणां प्रयोजकीकरणेन प्रसक्तदोषस्य परिजिहीर्षया वाराणस्याः विद्वद्वर्यैः " अर्हत्तिथिभास्करे " महता विचारेण प्रतिष्ठापितं जैनपर्वतिथिक्षयवृद्धिविषयकं सिद्धान्तमेव जैनशास्त्रसामाचारीसम्मतवया ज्यौतिषशास्त्रानुमततया च समर्थयामीति ।
ह० श्रीसीतारामझाः ११. व्याकरणशास्त्राचार्यवर्याणां विद्वत्प्रवराणां बहुविधग्रन्थनिर्माणेन प्राप्तप्रकृष्टप्रतिष्ठानां गुर्जरदेशावतंसानां महनीयमत्युत्साहशीलानां काशीस्थखेतानमहाविद्यालयाध्यक्षपदे प्रतिष्ठितानां पं.श्रीबालकृष्णशर्मपञ्चोलिमहाशयानां "वक्तव्यम्"
पूर्व जैनमतानुसारेण पर्वीभूततिथिवृद्धिक्षयविषये जातविवादे " शासनजयपताका" नाम्नी व्यवस्था काचन मत्समक्षमागता । तत्र जैनधर्मग्रन्थाननवलोक्यैव तव्यवस्थाऽनुरोधेन हस्ताक्षरं व्यधायि। ___ अधुना परस्परं विवदमानानां जैनाचार्याणां व्यवस्थाद्वयमवाप्य विविच्य च "अर्हत्तिथिभास्कर" इत्याख्या व्यवस्थैव प्रामाणिकीति प्रमाणयतिअधिकाशि-२५-१२-४९
ह. बालकृष्णशर्मा पञ्चोली १२. "वाराणसीपण्डितसभा” सम्पादकानां “महामहाध्यापक: " "न्यायकेशरी” “तर्कतीर्थः" " न्यायाचार्यः” इत्याद्यनेकपदवीविभूषितानां तार्किकचक्रचूड़ामणीनां पूर्व ज़ो० म० गोयनका-संस्कृत-महाविद्यालये न्यायशास्त्रप्रधानाध्यापकानामधुना काशीहिन्दूविश्वविद्यालये दर्शनविभागाध्यापकानाम् पं. श्रीवामाचरणभट्टाचार्यमहा शयानाम् “वक्तव्यम्” .
पूर्व जैनग्रन्थाननवलोक्यैव " शासनजयपताकायां " मया हस्ताक्षरं कृतम् । इदानीमवलोकितजैनधर्मग्रन्थेन निश्चीयते मया यत् साम्प्रतिकी " अर्हत्तिथिभास्कर " व्यवस्थैव सर्वथा समीचीना । धर्मान्तरसमाचारादप्यवगम्यते तावदियमेव व्यवस्था शास्त्रसिद्धेति प्रमाणीकरोति । । काशी-मा० कृ. ४, २००६ वै०
ह० वामाचरणभट्टाचार्यः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org