Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust
View full book text
________________
७३
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયને સમર્થક શ્રી અહતિથિભાસ્કર ]
१३. काशीस्थराजकीयसंस्कृतमहाविद्यालये ( गवर्नमेन्ट संस्कृत कालेज, काशी) प्रधानाध्यापकानां नव्यन्यायशास्त्रारण्यमहाकेसरिणां न्यायशास्त्रोच्चग्रन्थानामद्वितीयव्याख्याकाराणां न्यायाचार्यपण्डितवर्यश्रीशिवदत्तमिश्रमहोदयानां “सम्मतिः"
म० म०प० श्रीचिन्नस्वामिशास्त्रिभिविरचिता " श्रीशासनजयपताका " आमूलचूलमालोक्यमाना निजानादरमेव संगृह्याति । यतो ह्यनया ज्योतिषशास्त्रस्यासाधारणे तिथिप्रवेशादिकालरूपे विषये धर्मशास्त्रस्यानुचितः प्रवेशः समर्थितः " क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इत्याचार्योमास्वातिवचनस्य च " तत्वतरङ्गिणी" कल्पसूत्रदीपिका" प्रभृतिजैनशास्त्रग्रन्थविरुद्धमप्रामाणिकमयौक्तिकं च व्याख्यानं कृतम् । अतस्तस्या अकाटयं खण्डनं कृत्वा " अर्हत्तिथिभास्कर "नाम्ना निबन्धेन यः सिद्धान्तः प्रतिष्ठापितः स एव शास्त्रीयतया प्राचीनतरंजनसामाचारीसम्मततया च धार्मिकेण जैनसंघेन समादरणीय इत्यनुमन्यते
ह० शिवदत्तमिश्रः १४. साहित्यव्याकरणयोवेदान्तादिषडदर्शनशास्त्रेषु चोत्कटपाण्डित्यशालिना “ गवर्नमेंट संस्कृत कालेज, काशी" इति नाम्ना प्रसिद्धे महाविद्यालयेऽध्यापकानां पं० श्रीरघुनाथशर्ममहानुभावानां " सम्मतिः"
तिथीनां प्रवेशादिकालप्रतिपादनं ज्योतिषशास्त्रोपजीविनः पञ्चाङ्गस्यैव कार्य न तु धर्मशास्त्रस्य । एकशास्त्रस्यासाधारणे विषये च ततो विपरीतं बाधमाधातुं शास्त्रान्तरं न क्षमतेऽतत्परत्वात् । अतः "क्षये पूर्वी तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इति धर्मशास्त्रीयं वचनं क्षीणवृद्धपर्वतिथीनामाराधनादिनमात्रमवबोधयति न तु तासां पञ्चाङ्गप्रोक्तं कालं परिवर्तयतीति तद्वलेन तिथिकालपरिवर्तनसमर्थकं मतमनादरणीयमिति संमन्यते
ह० रघुनाथशर्मा १५. पूर्वोत्तरमीमांसाशास्त्राचार्याणां साहित्यधर्मशास्त्रादिप्रशस्तपण्डितप्रवराणां व्याख्यानभास्कराणां मीमांसकमूर्धन्यानां दक्षिणभारतस्य सभ्यभव्यसुधीश्रेणिशिरोमणीनां काशीहिन्दृविश्वविद्यालये मीमांसाशास्त्राध्यापकानां पं० श्रीसुब्रह्मण्यशास्त्रिमहाभागानां " वक्तव्यम्"
"वादे वादे जायते तत्त्वबोध " इति न्यायेन यदा यस्य विषयस्य सावधानेन मनसा पर्यालोचनं क्रियते तदा विषयसंशुद्धिराविर्भवतितराम् ।।
जैनमतानुसारिणां पर्वतिथिनिर्णयमधिकृत्य समनुसन्धानं कुर्वता साम्प्रतं निरधारि विषयोऽयं यत् पश्चाङ्गस्य यथावत् प्रामाण्यमङ्गीकृत्यैव क्षीणानां वृद्धानां च पर्वतिथीनामाराधनादिनस्य व्यवस्थापकत्वं “क्षये पूर्वा" इत्याधुमास्वातिप्रघोषस्य जैनशास्त्रेषु प्रत्यपादि। अयमेव शास्त्रसम्मतः पन्थारिशष्टसमादृतश्चेति ।।
एतेन त्रिचतुरेभ्यो वर्षेभ्यः पाक् सम्मतिग्रहणाय प्रेषितायां " शासनजयपताकायां" सम्यग् विषयविवेचनमन्तरा स्थालीपुलाकन्यायेन द्वित्राणि स्थलानि विलोक्य समग्रोऽपि प्रबन्धः शास्त्रानुसारी स्यादिति सम्भावनया स्वीयां सम्मतिं व्यतरम् । इदानीमुत्पन्नेन विषयपरिशोधनेन तस्या अशास्त्रीयतां निरूपयन् तत्रत्यां भ्रान्तिमपाकुर्वन्नात्मानमनृणं करोमि, समर्थयामि च " अर्हत्तिथिभास्करे " प्रतिष्ठापित सिद्धान्तमित्थम्श्रीकाशी--वि० सं० मा. कृ. ४, २००६
ह. सुब्रह्मण्यशास्त्री
१०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552