Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust
View full book text
________________
૧. લવાદી ચર્ચામાં આવેલા નિર્ણયના સમર્થક શ્રી અર્હત્તિચિભાસ્કર
विश्वनाथो विजयते
66
बुद्धेः फलमनाग्रह " इति " सत्ये नास्ति भयं क्वचिद् " इति च व्याहृती विमृश्याभियुतानां पौरस्त्या मतिः पश्चिमेन प्रमाणप्रभवेण निश्चयेन प्रतिबद्धमसरा सम्पाद्यत इति तर्कविदां समयमादाय च " पताकां " भूयोभिरासाद्य पातकैरिव प्रमाणाभासावकरैराकीर्णा विद्वद्धौरेयैः सन्दृब्धं वैकटिकतर्कनिकषनिकषितम् “ अर्हत्तिथिभास्करं " नाम निभालयन् सुवर्णहारं कस्को न मोमुद्यादन्तर्वाणिगणाग्रणीः । अकामयमानोऽपि स्तुत्यं निबन्धरत्नमिदं न कण्ठे कुर्वीत यो वा लब्धवर्णो विमत्सरः ?
एषोऽपि जनोऽनूचानपथं न्याय्यमनुसर्तुं निर्बध्यमानष्टिप्पणी भणितानि यथाश्रुतग्रहण एव प्रामाणिकतामाटीकयन् वृद्धिक्षौ पर्वतिथीनां सम्प्रदायग्रन्थवीथीषु शिष्टपारम्पर्या चरितासु भृशं सम्पश्यन् सम्प्राप्ताभ्युदयह्रासलक्षणवैलक्षण्यासु तिथियुगलीषु चर्चास्पदतामवगाहमानासु यौगपद्येन कृत्यद्वयविधानसंरम्भमबाधितमाकलयन् काममादरीदरीति प्रामाण्यम् “ अर्हत्तिथिभास्करस्य " इति - काशी - माघश्यामा द्वितीया, वै० २००६
ह० महादेवपाण्डेयः ७. शास्त्रार्थधुरन्धराणां व्याकरणाद्यनेकशास्त्राध्यापकवर्याणां काशीस्थश्रीरामानुजसंस्कृत महाविद्यालयाध्यक्षाणां श्रीमद्वैष्णवप्रवराणाम् विद्वत्कुलालङ्काराणां पं० श्रीपूर्णचन्द्राचार्याणां " सम्मतिः "
म० म० पण्डितश्रीचिन्नस्वामिशास्त्रिभिरापातरमणीयं यत्किमप्युक्त्वा स्वनिर्मित" शासन जयपताकायाः " पक्षे पूर्व मम हस्ताक्षराणि गृहीतानि, किन्तु साम्प्रतं पर्वतिथिक्षयवृद्धिविषयकजैनशास्त्रादिसाहाय्येनान्तः प्रविश्य पर्यालोचने कृते तु तत्पुस्तके समर्थितं मतमसिद्धान्तगर्ते निपतितं प्रमिणोमि । विद्वत्समित्या लिखिते “अर्हत्तिथिभास्करे " च युक्तिप्रमाणजातैः प्रतिष्ठापितं सिद्धान्तमेव जीताचारजैनशास्त्रादिप्रमाणसम्मतं निश्चिन्वन् तस्यैव धार्मिकजैनसङ्घस्योपादेयतां दाढर्थेन प्रमाणयामीति० पूर्णचन्द्राचार्योऽहम् ८. न्यायवेदान्तव्याकरणाद्यनेकशास्त्राचार्याणां वाराणसेय विद्वद्वर्यमालाप्रपूरकाणां धर्मसौजन्यसजीवप्रतिमानां मिथिलामहीमहारत्नानां काशीस्थश्रीश्यामामहाविद्यालयप्रधानाध्यापकानां पं० श्री उग्रानन्दझा महानुभावानां 'समर्थनम् '
माघ कृ० ३, २००६ वै०
""
म० म० श्री चिन्नास्वामिशास्त्रिभी रचितायाः “ श्रीशासनजयपताकायाः काशीविद्वत्समित्या युक्तिप्रमाणकदम्बैः सम्यक् खण्डनं विधाय " अर्हतिथिभास्करे " पर्वतिथिक्षयवृद्धिविषये सिद्धान्तो यः कृतस्स एव जैनधर्मनिबन्धानुमतः धार्मिकजैनजनताऽऽश्रयणीयश्चेति प्रारु प्रकृतविषयसम्बद्धजैनधर्मग्रन्थानालोचनेन " पताकायाम् " आपाततः प्रदत्तसम्मतिरपि " पताका " विपरीतं मतं समीचीनमिति साम्प्रतं निश्चिन्वन् श्रीरामचन्द्रसूरिपक्षमेव प्रकृतविषयकं समर्थयति -
૭૧
19
ह० उग्रानन्दझाशर्मा
९. व्याकरणे, मीमांसायां, सांख्ये, योगे, वेदान्ते च परीक्षाक्रमेणाचार्यपद भाजां धर्मशास्त्रसाहित्यप्रभृतीनामपि महापण्डितानां शाब्दिकशिरोमणीनां कविरत्नानां वाराणसेयराजकीय संस्कृतमहाविद्यालयाध्यापकानां श्रीमताम् पं० श्रीभूपनारा यणझामहाभागानां “ सुसम्मतिः "
Jain Education International
अनल्पकल्पनोत्सेकेन केनचिदुद्वेलितामापाततः प्रतीतोत्तममताकां " शासनजयपताकां स्वयमामूलचूलमनालोच्यापि तदुद्वेलयितारं विश्वस्य तदसम्यक्त्वशङ्कया कवोष्णं निःश्वस्य च तत्र स्वस्य
For Personal & Private Use Only
"
www.jainelibrary.org

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552