Book Title: Tithidin ane Parvaradhan tatha Arhattithibhaskar
Author(s): Jain Pravachan Pracharak Trust
Publisher: Jain Pravachan Pracharak Trust

View full book text
Previous | Next

Page 473
________________ | જૈન દષ્ટિએ તિથિદિન અને પર્વોરાધન-સંગ્રહવિભાગ ३. सहिव्याकरणवेदान्ताद्यनेकशास्त्रप्रकाण्डपण्डितवर्याणां श्रीकाशीविद्वत्परिषदो विशेषाधिकारिणां काशीस्थश्रीगोयनका- . संस्कृतमहाविद्यालयाध्यक्षाणां श्रीमतां कमलाकान्तमिश्रमहाशयानां “ सम्मतिः” । म०म० पं श्रीचिन्नस्वामिशास्त्रिमहाशयैः स्वप्रणीतायां " शासनजयपताकायाम् ” मामिका सम्मतिर्यदुक्त्वा गृहीताऽऽसीत् तत् तदीयपताकायानास्ति । यदस्ति तत्तु नैव रोचेत कोविदाय कस्मैचित् । अतस्तस्याः सम्यनिराकरणपूर्वकम् " अर्हत्तिथिभास्करे " काशीविद्वत्समित्या जैनपर्वतिथीनां क्षयवृद्धिविषये यस्सिद्धान्तः सुप्रतिष्ठापितस्स एव जैनशास्त्राणां प्राचीनतमजैनसामाचारीणाश्वानुकूलतया मम मान्यः। चतुर्दश्यादीनां विशुद्धगणितोपजीविटिप्पणोदितसमयस्याशास्त्रीयमन्यथाकरणम् प्रतिपादयन्त्यां "शासनजयपताकायाम्" असता प्रकारेण कारितस्य मामकीनहस्ताक्षरस्यानुसन्धानन्दुनोति मदीयम्मानसमिति धार्मिकैनैः " अर्हत्तिथिभास्करे " सिद्धान्तितः पक्ष एव प्रमाणतया ग्रहीतव्य इति सानुरोधं सन्दिशामिगौ० सं० म०, ललिताघाट, काशी-पोषी पू० २००६ ह० कमलाकान्तमिश्रः ४. न्यायवेदान्तादिषड्दर्शनीविद्याविद्योतितान्तःकरणानां काशीहिन्दूविश्वविद्यालये दर्शनविभागाध्यक्षाणां भामतीप्रकाशविकासव्युत्पत्तिवादप्रकाशादिसद्ग्रन्थप्रणयनप्रसृतयशोनिचयानां पण्डितप्रवरश्रीलक्ष्मीनाथझामहानुभावानां"समुद्घोषः" ___ "शासनजयपताका"-कर्तृश्चिरपरिचयात् तदीयं ग्रन्थमनालोच्यैव पूर्व तत्पक्षे सम्मतिर्मया प्रदत्ता । परमधुना प्रकृतविषयसम्बद्धान् प्रायः सर्वान् जैनग्रन्थान् विवदमानयोराचार्ययोर्वक्तव्यानि च सम्यक् परिशील्येदनिश्चीयते यत् पर्वतिथिक्षयवृद्धिविषयकं श्रीसागरानन्दसूरिमतं जैनशास्त्रविरुद्धम् । तत्समर्थनाय प्रवृत्ता " शासनजयपताका " च अयौक्तिकी अप्रामाणिकी अशास्त्रीया चेति काशीस्थ. विद्वत्समित्या लिखितम् " अर्हत्तिथिभास्करम् " एव शास्त्रीयतया प्रामाणिकतया जैनजनोपादेयतया च सुदृढमुद्घोषयामीति । काशी-पौ० कृ० १४, २००६ वै० ____ ह. लक्ष्मीनाथझाः ५. साहित्याचार्य, साहित्यरत्नाकर, विद्यासागराद्यनेकपदवीप्रतिष्ठाकराणां श्री०जो० म० गोयनका-संस्कृतमहाविद्यालयोपाध्यक्षाणां श्रीटीकमणिसंस्कृतमहाविद्यालयाध्यक्षाणां साहित्यशास्त्रप्रधानाध्यापकानां धर्मशास्त्रविद्वद्वररत्नानाम् श्रीताराचरणशर्मभट्टाचार्यमहाभागानाम् “निश्चयः" "शासनजयपताका"-कर्तुर्मतं स्थालीपुलाकन्यायेन पूर्वमालोचितमपि साम्प्रतम् " अर्हत्तिथिभास्करे " प्रतिपादितस्य मतस्य सम्यक्समालोचनेन पर्वतिथिक्षयवृद्धिविषये विप्रतिपद्यमानयोरुभयोरप्याचार्ययोरुक्तीनां विशिष्य विचारेण च जैनशास्त्राणां तत्साक्षिकप्राचीनाचारपरम्पराणाश्च प्रतिकूलं प्रतिभात्यतः " अर्हत्तिथिभास्करे " प्रतिष्ठापितः सिद्धान्त एव जैनमतावलम्बिभिनिःशङ्कमाश्रयणीय इति निश्चिनोतिगो० सं० म०, ललिताघाट, काशी-पौ. शु० ५, २००६ वै० ह० श्रीताराचरणशर्मा भट्टाचार्यः ६. कवितार्किकचक्रवर्तिनां साहित्यव्याकरणदर्शनादिशास्त्राचार्यधुर्याणां काशीहिन्दूविश्वविद्यालये साहित्यविभागाध्यक्षाणां विश्वविद्यालय महासभाशिक्षासभादि( कोर्ट, सिनेट, फेकल्टी )सदस्यानाम् अखिलभारतवर्षीयसंस्कृतसाहित्यसम्मेलनमुखपत्रस्य "संस्कृतरत्नाकरस्य" प्रधानसम्पादकानां पं० श्रीमहादेवपाण्डेयमहोदयानां "सुसम्मतिः” Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552