________________
| જૈન દષ્ટિએ તિથિદિન અને પર્વોરાધન-સંગ્રહવિભાગ ३. सहिव्याकरणवेदान्ताद्यनेकशास्त्रप्रकाण्डपण्डितवर्याणां श्रीकाशीविद्वत्परिषदो विशेषाधिकारिणां काशीस्थश्रीगोयनका- . संस्कृतमहाविद्यालयाध्यक्षाणां श्रीमतां कमलाकान्तमिश्रमहाशयानां “ सम्मतिः” ।
म०म० पं श्रीचिन्नस्वामिशास्त्रिमहाशयैः स्वप्रणीतायां " शासनजयपताकायाम् ” मामिका सम्मतिर्यदुक्त्वा गृहीताऽऽसीत् तत् तदीयपताकायानास्ति । यदस्ति तत्तु नैव रोचेत कोविदाय कस्मैचित् । अतस्तस्याः सम्यनिराकरणपूर्वकम् " अर्हत्तिथिभास्करे " काशीविद्वत्समित्या जैनपर्वतिथीनां क्षयवृद्धिविषये यस्सिद्धान्तः सुप्रतिष्ठापितस्स एव जैनशास्त्राणां प्राचीनतमजैनसामाचारीणाश्वानुकूलतया मम मान्यः।
चतुर्दश्यादीनां विशुद्धगणितोपजीविटिप्पणोदितसमयस्याशास्त्रीयमन्यथाकरणम् प्रतिपादयन्त्यां "शासनजयपताकायाम्" असता प्रकारेण कारितस्य मामकीनहस्ताक्षरस्यानुसन्धानन्दुनोति मदीयम्मानसमिति धार्मिकैनैः " अर्हत्तिथिभास्करे " सिद्धान्तितः पक्ष एव प्रमाणतया ग्रहीतव्य इति सानुरोधं सन्दिशामिगौ० सं० म०, ललिताघाट, काशी-पोषी पू० २००६
ह० कमलाकान्तमिश्रः ४. न्यायवेदान्तादिषड्दर्शनीविद्याविद्योतितान्तःकरणानां काशीहिन्दूविश्वविद्यालये दर्शनविभागाध्यक्षाणां भामतीप्रकाशविकासव्युत्पत्तिवादप्रकाशादिसद्ग्रन्थप्रणयनप्रसृतयशोनिचयानां पण्डितप्रवरश्रीलक्ष्मीनाथझामहानुभावानां"समुद्घोषः" ___ "शासनजयपताका"-कर्तृश्चिरपरिचयात् तदीयं ग्रन्थमनालोच्यैव पूर्व तत्पक्षे सम्मतिर्मया प्रदत्ता । परमधुना प्रकृतविषयसम्बद्धान् प्रायः सर्वान् जैनग्रन्थान् विवदमानयोराचार्ययोर्वक्तव्यानि च सम्यक् परिशील्येदनिश्चीयते यत् पर्वतिथिक्षयवृद्धिविषयकं श्रीसागरानन्दसूरिमतं जैनशास्त्रविरुद्धम् । तत्समर्थनाय प्रवृत्ता " शासनजयपताका " च अयौक्तिकी अप्रामाणिकी अशास्त्रीया चेति काशीस्थ. विद्वत्समित्या लिखितम् " अर्हत्तिथिभास्करम् " एव शास्त्रीयतया प्रामाणिकतया जैनजनोपादेयतया च सुदृढमुद्घोषयामीति । काशी-पौ० कृ० १४, २००६ वै०
____ ह. लक्ष्मीनाथझाः ५. साहित्याचार्य, साहित्यरत्नाकर, विद्यासागराद्यनेकपदवीप्रतिष्ठाकराणां श्री०जो० म० गोयनका-संस्कृतमहाविद्यालयोपाध्यक्षाणां श्रीटीकमणिसंस्कृतमहाविद्यालयाध्यक्षाणां साहित्यशास्त्रप्रधानाध्यापकानां धर्मशास्त्रविद्वद्वररत्नानाम् श्रीताराचरणशर्मभट्टाचार्यमहाभागानाम् “निश्चयः"
"शासनजयपताका"-कर्तुर्मतं स्थालीपुलाकन्यायेन पूर्वमालोचितमपि साम्प्रतम् " अर्हत्तिथिभास्करे " प्रतिपादितस्य मतस्य सम्यक्समालोचनेन पर्वतिथिक्षयवृद्धिविषये विप्रतिपद्यमानयोरुभयोरप्याचार्ययोरुक्तीनां विशिष्य विचारेण च जैनशास्त्राणां तत्साक्षिकप्राचीनाचारपरम्पराणाश्च प्रतिकूलं प्रतिभात्यतः " अर्हत्तिथिभास्करे " प्रतिष्ठापितः सिद्धान्त एव जैनमतावलम्बिभिनिःशङ्कमाश्रयणीय इति निश्चिनोतिगो० सं० म०, ललिताघाट, काशी-पौ. शु० ५, २००६ वै० ह० श्रीताराचरणशर्मा भट्टाचार्यः
६. कवितार्किकचक्रवर्तिनां साहित्यव्याकरणदर्शनादिशास्त्राचार्यधुर्याणां काशीहिन्दूविश्वविद्यालये साहित्यविभागाध्यक्षाणां विश्वविद्यालय महासभाशिक्षासभादि( कोर्ट, सिनेट, फेकल्टी )सदस्यानाम् अखिलभारतवर्षीयसंस्कृतसाहित्यसम्मेलनमुखपत्रस्य "संस्कृतरत्नाकरस्य" प्रधानसम्पादकानां पं० श्रीमहादेवपाण्डेयमहोदयानां "सुसम्मतिः”
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org